SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३७० चन्द्रप्रवप्तिसूत्रे मूलम्-ता कहं ते संवच्छरा आहिया ति वएज्जा । ता पंच संवच्छरा आहिया, ति वएज्जा तं जहा-णक्खत्तसंवच्छरे १, जुगसंवच्छरे २, पमाणसंवच्छरे ३, लक्खणसंवच्छरे ४, सणिच्छरसंवच्छरे ॥सू० १॥ छाया-तावत् कथ ते संवत्सरा आख्याता इति वदेत् तद्यथा-नक्षत्रसंवत्सरः१, युगसंवत्सरः २, प्रमाणसंवत्सरः ३, लक्षणसंवत्सर ४, शनैश्चरसंवत्सरः सू०१॥ व्याख्या-गौतमः पृच्छति-'ता कहं ते संवच्छरा' इति तावत् हे भगवन् 'कह' कथं कतिसंख्यका 'ते' त्वया 'संवच्छरा' संवत्सराः 'आहिया' आख्याताः ? इति वएज्जा' इति वदेत् वदतु कथयतु । भगवानाह-'ता' तावत् 'पंच संवच्छरा' आहिया' पञ्च संवत्सरा 'अहिया' मया आख्याताः 'ति वएज्जा' इति वदेत् कथयेत् स्वगिष्येभ्यः । 'तं जहा' तद्यथाते पञ्च संवत्सरा यथा-'णक्खत्त संवच्छरे' नक्षत्रसंवत्सरः तत्र यावताकालेन अष्टाविंशति नक्षत्रैः सह चन्द्रस्य योगसमाप्ति भवेत् यावत् कालेन चन्द्रोऽष्टाविंशती नक्षत्रेषु भोगं कृत्वा तेभ्यः पृथग भवेत् तावत्परिमितः कालविशेपो नक्षत्रमासो भवति ते नक्षत्रमासा यावता कालेन द्वादश व्यतीता भवन्ति तावत्परिमितः कालविशेपो नक्षत्रसंवत्सरः कथ्यते, अथ च एको नक्षत्रमासो द्वादशभिर्गुणितो नक्षत्रसंवत्सरो भवति, उक्तञ्च "नक्खत्तं चंद जोगो वारस गुणिओ य नक्खत्तो ।।" छाया-~-नक्षत्रचन्द्रयोगः द्वादशगुणितश्च नाक्षत्रः (संवत्सरः) । इति । अत्र पुनरेकेन ऊनिकृतो नक्षत्र पर्याय योग एको नक्षत्रमासः-सप्तविंशतिरहोरात्राः, एकस्याहोरात्रस्य एकविंशतिः सप्तपष्टि भागः (२७-) एतावत्परिमितो भवति । एप एकस्य नक्षत्रमासस्याहोरात्रपरिमाणरूपो राशिर्यदा द्वादशभिर्गुण्यते तदा यस्तड्गुणनफलराशि भवेत् तत्परिमिताहोगत्रप्रमाणो नक्षत्रसंवत्सरो भवति, तच्च गुणनफलमेतावत्परिमितं भवति-सप्तविंशत्यधिकानि त्रीणि अहोरात्रशतानि, एकस्याहोरात्रस्य च एकपञ्चाशत् सप्तपष्टिभागाः(३२७५३) इति कथमेतदवसीयते इति तद्गणितं प्रदर्श्यते - एकनक्षत्रमासाहोरात्र (२०२१) द्वादशभिर्गुणने प्रथम सप्तवशिति दशभिर्गुण्यते जातानि चतुर्विशत्यधिकानि त्रीणि शतानि (३२४) तत उपरितनो रागिरेकविंशतिः (२१) एपोऽपि द्वादशभिर्गुण्यते जाते द्विपञ्चाशदधिके द्वेशते (२५२), ततोऽस्याऽहोरात्रानयनार्थ सप्तपष्टया भागो हियते लब्धास्नया, पते पूर्व स्थितेऽहोरत्रराशौ (३२४) प्रक्षिप्यन्ते जातानि मप्तविंशत्यधिकानि
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy