SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३६८ चन्द्रप्रचाप्तिसूत्रे चारा 'आहिया' आख्याताः कथिताः ? 'तिवएज्जा' इति वदेत् वदतु कथयतु हे भगवन् ! । एवं गौतमेन पृष्टे भगवानाह-'ता' तावत् 'पंचसंवच्छरिएणं जुगे' पञ्चसावत्सरिके पूर्वोक्त पञ्च संवत्सरात्मके खल युगे 'अभीईनक्खत्ते' अभिजिन्नक्षत्र 'पंचचारे' पञ्चचारान् यावत् 'सूरेण सद्धिं' सूरेण साधं 'जोय जोएइ' योगं युनक्ति । कथमित्याह-अत्र योगमाश्रित्य सूर्यस्य समस्त नक्षत्रचक्रचारपरिसमाप्तिरेकेन सूर्यसवत्सरेण जायते, ते च सूर्यसवत्सरा एकस्मिन् युगे पञ्चैव भवन्ति ततः प्रत्येकस्मिन् संवत्सरे एकैकस्मिन् मासे एकैकनक्षत्रयोगसनावात् युगसम्बन्धिपु पञ्चसु संवत्सरेपु पञ्चवारानेव सूर्यस्याभिजिता सह योगसमुपपत्तिर्लभ्यते ततोऽभिजिन्नक्षत्रेण सह संयुक्तः सूर्य एकस्मिन् युगे पञ्च चारान्चरतीति सिध्यति । एवं रीत्या सर्वनक्षत्रैः सह सूर्ययोगएकस्मिन् युगे पञ्चचारान् यावत् भवतीति विज्ञेयम् । ततः यत्मिन् सवत्सरे येन नक्षत्रेण संह'सूर्यस्य योगो भवति स पुनः सूर्यस्य योगस्तेन नक्षत्रेण सह द्वितीये सवत्सरे भविष्यति प्रत्येक सवत्सरे एकैकनक्षत्रेण सह सूर्ययोग सद्भावात् ‘एवं' एवम्-अनया रीत्या 'जाव' यावत् अत्र यावत्पदेन श्रवणनक्षत्रादारभ्य पूर्वापाढानक्षत्रपर्यन्तानि पड्विंशतिनक्षत्राणि एकस्मिन् युगे प्रत्येक पञ्च पञ्चचारान् सूर्येण सह योगं युञ्जन्ति । अथाष्टाविंशतितमनक्षत्रमाह-'उत्तरासादानक्खते' उत्तरापाढानक्षत्रं 'पंचचारे' पञ्चचारान् 'सुरेण सद्धि' सूर्येण साधं 'जोयं जोएइ' योगं युनक्तीति । २८ ॥सू० १॥ ' ' चन्द्रप्रज्ञप्ति सूत्रे चन्द्रज्ञप्तिप्रकाशिका व्याख्यायां दशमस्य प्रामृतस्य अष्टादशं प्रामृतप्रामृतं समाप्तम् ॥१०॥१८॥ ॥ दशमस्य प्राभृत्तस्यैकोनविंशतितमं प्राभृतप्राभृतम् ॥ गतमष्टादशं प्रामृतप्रामृतम् तत्र चन्द्रचारा आदित्यचाराश्च प्रदार्शिताः । अथैकोनविंशतितमं प्रामृतप्राभृतं प्रारभ्यते, अत्र संवत्सरस्य मासा वक्तव्या इति तद्विपयं सूत्रमाह-'ता कहते मासा' इत्यादि। मूलम्-ता कहं ते मासा आहिया ? तिवएज्जा । ता एगमेगस्स णं संवच्छरस वारस मासा पण्णत्ता । तेसिं च णं वारसण्डं मासाणं दुविदा नामधेज्जा पण्णत्ता, तं जहा लोइया लोउत्तरिया य। तत्थ लोइया नामा सावणे, भवए २, आसोए ३, जाव आसाढे १२ । लोउत्तरिया णामा-"अभिणंदे १, सुपाढे २ य, विजए ३ पीइवद्धणे ४१ सेज्ज से ५ य सिवइ यावइ, सिसिरे ७ वि य हेमवं ८॥१॥ नवमे वसंतमासे ९, दसमे कुसुम संभवे १० एगारसमे णिदाहे ११, वण विरोही य वारसे ॥२॥ सू० १ . दसमस्स वाहुडस्स गूणवीसइमं पाहुडपाहुडं समत्तं ॥१० १९॥
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy