SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ६१७ चन्द्रप्राप्तिकाशिका टीका प्रा. १० प्रा प्रा. ११ चन्द्रसूर्यमण्डलमार्गतदन्तरंच ३४३ भाजकराशि श्चतुर्दशरूपः १४, तेन शेषाङ्कानां (३५८) भागो हिएते लब्धा पञ्चविंशतिरेकषष्टिभागाः (२५) पुनः शेषास्तिष्ठन्ति अष्टो, एते सप्तभागकरणाथै सप्तभि र्गुण्यन्ते जाताः षट् पञ्चाशत् (५६), एषां चतुर्दशमि भांगे हृते लब्धाश्चत्वारः सप्त भागाः ४ परिपूर्णाः (३६ । एतावत्प्रमाण एकैकस्य चन्द्रस्यैकैकाहोरात्रमाश्रित्य विकम्प इति । ___ तदेवं चन्द्रसूर्ययो विकम्पक्षेत्रकाष्ठा प्रदर्शिता, तथा चन्द्रमण्डलानां सूर्यमण्डलानां च परस्परमन्तरमपि चोक्तम् ॥ अथ पूर्व यदुक्तम् कियन्ति चन्द्रमण्डलस्यापान्तराले सूर्यमण्डलानि ?' इति तद्विषयकप्रस्तुतप्रकरणं प्रस्तूयते-तत्र सर्वाभ्यन्तरे चन्द्रमण्डले सर्वाभ्यन्तरं सूर्यमण्डलं सर्वात्मना प्रविष्टं भवति तत्र-चन्द्रमण्डलस्य केवलमष्टावेव एक पष्टिभागाः बहिरवशिष्टास्तिष्ठन्ति, चन्द्रमण्डलात् सूर्यमण्डलस्य अष्टैकपष्टिभागैीनत्वात् , ततो द्वितीयस्माच्चन्द्रमण्डलाद् अर्वाग् अपान्तराले द्वादशसूर्यमार्गा भवन्ति । कथमेतदिति गणितेन प्रदर्श्यते तथाहि-द्वयोश्चन्द्रमण्डलयोरन्तरं पञ्चत्रिंशद् योजनानि एकस्यच योजनस्य त्रिंगच्चैकषष्टिभागाः, एकस्य चैकपष्टिभागस्य सबन्धिनश्चत्वारः सप्तभागाः (३५३० )इति पूर्व प्रदर्शितमेव तत्र पूर्व योजनानि एकषष्टिभागकरणाथै पञ्चत्रिंशदेकषष्टया गुण्यन्ते, जातानि पञ्चत्रिंशदधिकानि एकविशतिशतानि (२१३५), एते एकपष्टिभागा जाताः एषु त्रिंशदेकषष्टिभागा उपरितनाः प्रक्षिप्यन्ते जातानि पञ्चपष्टयधिकानि एकविंशतिशतानि (२१६५) स्थिता उपरितना एकस्यैकषष्टिभागस्य चत्वारः सप्तभागाः ( 2 ) ते तिष्टन्तु । अथ सूर्यस्य विकम्पो द्वे योजने एकस्य च योजनस्य अष्टचत्वा रिंशदेकषष्टिभागाः: (२३८) तत पूर्व योजनद्वयमेकपट्या गुण्यते जातं द्वाविंशत्यधिकमेकं शतम् (१२२), तत एखूपरितना योजनस्याष्टचत्वारिंशदेकषष्टिभागाः प्रक्षिप्यन्ते जातं सप्तत्यधिकमेकशतम् (१७०), अनेन पञ्चषष्टयधिकैकविंशतिशतानां (२१६५) भागो ह्रियते लब्धा द्वादश, एते द्वितीयचन्द्रमण्डलादगपान्तराले सूर्यमार्गा भवन्ति, अथ च शेषं यत् पञ्चविंशत्यधिकमेकं शतं तिष्ठति (१२५) तत एक पष्टिद्विगुणितेन द्वाविंशत्यधिकशतेन भागे हृते द्वे योजने लब्धे, एते द्वे योजने द्वादशस्य सूर्यमार्गस्योपरि द्वे योजने (२) शेपास्तिष्ठन्ति त्रयः एकषष्टिभागाः (२) एषु ये प्रथमे चन्द्रमण्डले सर्वात्मना सूर्यमण्डले प्रविष्टे सति ये शेषाः सूर्यमण्डलादधिका अष्टावेकषष्टिभागास्ते प्रक्षिप्यन्ते, जाता एकादश एकषष्टि भागाः (११), तत आगतम्-द्वाद ।
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy