________________
चन्द्रशप्तिप्रकाशिका टीका प्रा. १० प्रा प्रा. ११ चन्द्रसूर्यमण्डलमार्गतदन्तरंच ३४१ णं भंते ! चंदमंडलस्स एस णं केवइए अवाहाए अंतरे पण्णत्ते ! गोयमा ! पणतीसंजोयणाइं तीसं च एगद्विभागा जोयणस्स, एगंच एगसहिभागं सत्तहा छिता चत्तारि य चुण्णिया भागा ऐसा चंदमंडलस्स अवाहाए अंतरे पण्णत्ते"
छाया-सुरमण्डलस्य खलु भदन्त ! सूरमण्डलस्य एतत् खल्ल कियत्कम् अबाधया अन्तरं प्रज्ञप्तम् ! गौतम ! द्वे योजने सूरमण्डलस्य सूरमण्डलस्य अबाधया अन्तरं प्रज्ञप्तम् । तथा-चन्द्रमण्डलस्य खलु भदन्त ! चन्द्रमण्डलस्य एतत् खल कियत्कं अबाधया अन्तरं प्रज्ञप्तम् गौतम् ! पञ्चत्रिंशत् योजनानि, त्रिंशच्च एकपष्टिभागा योजनस्य, एकं च एकषष्टिभागं सप्तधा छित्वा चत्वारश्च चूर्णिका भागा शेषाः३५-३०/- चू ) तदेतत् चन्द्रमण्डलस्य
६१/७ अवाधया अंतरं प्रज्ञप्तम् ।।
एतत् सूर्यमण्डलस्य चन्द्रमण्डलस्य चान्तरं प्रोक्तं तत् स्वस्वमण्डलविष्कम्भपरिमाणेन युक्ते कृते सूर्यस्य-चन्द्रस्य च विष्कम्पपरिमाणमायाति । उक्तञ्च
सरविकंपो एक्को, समंडलाहोइ मंडलंतरिया । चंदविकंपो य तहा, समंडला मंडलंतरिया ॥२॥
अस्याः काचिदक्षरगमनिका क्रियते-'सूरविकंपो' इत्यादि, मंडलंतरिया मण्डलान्तरिका मण्डलस्य मण्डलस्य च अन्तरं 'समंडला' समण्डला मण्डलेन सहिता, अत्र मण्डलशब्देन मण्डलविष्कम्भो गृह्यते, तेन समण्डलिका मण्डलविष्कम्भसहिता, पूर्वोक्तमन्तरं सूर्यमण्डलविष्कम्भयुक्तं भवति तदेव 'एक्को सूरविकंपो एक सूर्यविक्रम्पो भवति सूर्यस्य विकम्पक्षेत्रपरिमाणं भवतीति भावः। 'तहा य' तथैव सूर्य विकम्पवदेव मण्डलान्तरं मण्डलविष्कम्भयुक्तं कुर्यात् तत् चन्द्रविकम्पक्षेत्रं भवतीति । तथाहि-एकं सूर्यमण्डलस्यान्तरं द्वे योजने, इति पूर्व प्रदर्शितम् । सूर्यमण्डलविष्कम्भश्च-अष्टचत्वारिंशदेकपष्टिभागाः (१) । ततो द्वयोर्मेलने जातमेकस्य सूर्यमण्डस्य विकम्पपरिमाणम् । योजने, एकस्य च योजनस्य अष्टचत्वारिंशद् एकषष्टिभागाः-२-१८) एतत् सूर्यमण्डलस्य विकम्पपरिमाणम् । एवं चन्द्रमण्डलान्तरं पञ्चत्रिंशत् योजनानि, एकस्य च योजनस्य त्रिंशद् एक षष्टिभागाः, एकस्य चैकषष्टिभागस्य च चत्वारः सप्तभागाः ये चूर्णिकाभागाः कथ्यन्ते
तस्मिन् चन्द्रमण्डलान्तरे चन्द्रमण्डलविष्कम्भपरिमाणेन