SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्तिप्रकाशिका टीका प्रा. १० प्रा०मा ११ चन्द्रसूर्यमण्डलमार्गतदन्तरंच कियन्ति सूर्यमण्डलानि भवन्ति तथा पष्ठमण्डलादारभ्य दशमण्डलपर्यन्तानि पञ्च (६-७-८१०) चन्द्रमण्डलानि कथं सूर्याभ्यां न स्पृश्यन्ते ? इति तद्विभाग उपदर्श्यते- -तत्र प्रथममेतद्विभागप्रदर्शनार्थं सूर्यस्य विकम्पक्षेत्रकाष्ठा प्ररूप्यते विकम्प इति शनैः शनै संचरणरूपा गतिरिति । अत्र सूर्यस्य विकम्पक्षेत्रकाष्ठा, काष्ठेति विकम्पक्षेत्रस्य उत्कृष्ठं परिमाणमिति, सा च दशोत्तराणि पञ्च योजनशतानि (५१० ) । तथाहि--यदि सूर्यस्य एकेनाहोरात्रेण विकम्पो द्वे योजने, एकस्य च योजनस्य अष्टचत्वा रिंशदेकषष्टिभागाः (२–० लभ्यन्ते तदा त्र्यशीत्यधिकशता (१८३) होरात्रैः कति योजनानि त्रैराशिकं गणितं क्रियते, तत्र राशित्रयं स्थाप्यते - १८३ । अत्रान्त्यराशिना ६१ लभ्यन्ते ? इति ४८ ६१ मध्यराशिर्गुण्यते ततो मध्यराशिगतयोजनद्वयस्य सवर्णनार्थम् (एकपष्टि भागकरणार्थम्) द्वे योजने एकपटया गुण्येते जातं द्वाविंशत्यधिकमेकं शतम् (१२२) जाता एते एकषष्टिभागाः, एषु ये अष्टचत्वारिंशदेकपष्टिभागा स्थितास्ते प्रक्षिप्यन्ते जातं सप्तत्यधिकमेकं शतम् ( १७० ) संजात एप गुण्यराशिरन्त्येन त्र्यशीत्यधिकशत (१८३ ) संख्यकराशिना गुण्यते जातानि दशोत्तरशताधिकानि एकत्रिंशत्सहस्राणि (३१११० ) । एते एकषष्टिभागाः सन्ति, एषां योज - नानयनार्थमेकपष्ट्या भागो हियते, लब्धानि दशोत्तराणि पञ्चशतयोजनानि ( ५१० ) एता - वती त्र्यशीत्यधिकशताहोरात्रः सूर्यस्य विकम्पक्षेत्रकाष्ठा । एप दशोत्तर पञ्चशत योजनपरिमितः सूर्यस्य त्र्यशीत्यधिकशतमण्डलपरिभ्रमणमार्गः, नातोऽधिकमित्यतो विकम्पक्षेत्रकाष्ठेत्युच्यते । अथ चन्द्रस्य विकम्पक्षेत्रकाष्ठा प्रदर्श्यते चन्द्रस्य विकम्पक्षेत्रकाष्ठा नवाधिकपञ्चशतयोजनानि एकस्य च योजनस्य त्रिपञ्चाशदेकपष्टिभागाः (५०९ ५३ ) । ततो यदि चन्द्रमसो विकम्पः एके ६१ नाहोरात्रेण पट् त्रिंशद्योजनानि, एकस्य च योजनस्य पञ्चविंशति रेकषष्टिभागाः एकस्य चक षष्ठि भागस्य चत्वारः सप्तभागाः ३६ लभ्यन्ते तदा चतुर्दशभिरहोरात्रैः कतिभागा लभ्यन्ते ± ६१७ ५ ४ अत्रापि राशित्रयात्मकं गणितं भवति ततो राशित्रयस्थापना क्रियते सा चेत्थम् ३६ २५ ६१ ३३९ - १1१४ ४
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy