SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. ११ चन्द्रमार्गान्तरम् ३३५ चंदमंडले ४, तत्थ जेते चंदमंडला जे णं सया आइच्चेहि विरहिया तेणं पंच, तं जहा-छठे चंदमंडले १, सत्तमे चंदमंडले १, अट्ठमे चंदमंडले ३, नवमे चंदमंडले ४, दसमे चंदमंडले ५, ॥सूत्र २॥ "दसमस्स पाहुडस्स एगारसमं पाहुडपाहुडं समत्तं ॥१०-११॥ छाया तावत् कतिखल्लु ते चन्द्रमण्डलानि आख्यातानि ? इति वदेत्, तावत्पञ्चदश चन्द्रमण्डलानि आख्यातानि इतिवदेत् । तावत् एतेषां खलु पञ्चदशानां चन्द्रमण्डलानां सन्ति चन्द्रमण्डलानि यानि खलु सदा नक्षत्रैरविरहितानि । सन्ति चन्द्रमण्डलानि यानि खलु सदा तक्षविरहितानि २ । सन्ति चन्द्रमण्डानि यानि खलु रवि शशि नक्षत्राणां सामान्यानि भवन्ति ३। सन्ति चन्द्रमण्डलानि यानि खलु सदा अदित्याभ्यां विरहितानि ४। तावत् एतेषां खलु पञ्चदशानां चन्द्रमण्डलानां कतमानि चन्द्रमण्डलानि यानि खलु सदा नक्षत्रैः विरहितानि ? यावत् कतमानि चन्द्रमण्डलानि यानि खलु सदा आदित्याभ्यां विरहितानि ? तावत् एतेषां खलु पञ्चदशानां चन्द्रमण्डलानां तत्र यानि तानि चन्द्रमण्डलानि यानि खलु नक्षत्रैः अविरहितानि तानि खलु अष्ट, तद्यथा-प्रथम चन्द्रमण्डलम् १ तृतीय चन्द्रमण्ड लम् , २ पष्ठं चन्द्रमण्डलम् ३, सप्तमं चन्द्रमण्डलम् ४, अष्टम चन्द्रमण्डलम् ५, दशमं चन्द्रमण्डलम् ६, एकादशं चन्द्रमण्डलम् ७, पञ्चदश चन्द्रमण्डलम् ८॥ १, तत्र यानि तानि चन्द्रमण्डलानि यानि खलु सदा नक्षत्रैः विरहितानि तानि खलु सप्त, तद्यथा-द्वितीयं चन्द्रमण्डलम् १, चतुर्थ चन्द्रमण्डलम् २, पञ्चमं चन्द्रमण्डलम् ३, नवमं चन्द्रमण्डलम् ४, द्वादशं चन्द्रमण्डलम् ५, त्रयोदशं चन्द्रमण्डलम् ६, चतुर्दशं चन्द्रमण्डलम् ७।२॥ तत्र यानि तानि चन्द्रमण्डलानि यानि खलु शशि-रवि नक्षत्राणां सामान्यानि भवन्ति तानि खलु चत्वारि, तद्यथा प्रथम चन्द्रमण्डलम् १, द्वितीयं चन्द्रमण्डलम् २, एकादशं चन्द्रमण्डलम् ३, पञ्चदशं चन्द्रमण्डलम् ४, ३॥ तत्र यानि तानि चन्द्रमण्डलानि यानि खलु सदा आदित्याभ्यां विरहितानि तानि खलु पञ्च, तद्यथा-पष्ठं चन्द्रमण्डलम् १, सप्तमं चन्द्रमण्डलम् २, अष्टमं चन्द्रमण्डलम् ३, नवमं चन्द्रमण्डलम् ४, दशमं चन्द्रमण्डलम् ५ ४ासू० २॥ दशमस्य प्राभृतस्य एकादश प्राभृतप्राभृतं समाप्तम् ॥१०-११॥ ___ व्याख्या-गौतमः पृच्छति 'ता कइणं ते चंदमंडला' इति 'ता' तावत् 'कइ णं' कति खलु कियन्ति खल 'ते' ते त्वया 'चंदमंडला' चन्द्रमण्डलानि 'आहिया' आख्यातानि कथितानि 'ति वएज्जा' इति वदेत् वदतु कथयतु हे भगवन् ! । भगवानाह 'ता' तावत् 'पण्णरस' पञ्चदश पञ्चदशसंख्यकानि 'चंदमंडला' चन्द्रमण्डलानि 'आहिया' आख्यातानि मया कथितानि 'ति' इति एवं प्रकारेण 'वएज्जा' वदेत् कथयेत् स्वशिष्येभ्य इति । तत्र पञ्च चन्द्रमण्डलानि जम्बूद्वोपे सन्ति शेषाणि च दशमण्डलानि लवणसमुद्रे सन्ति । उक्तञ्च जम्बूद्वीपप्रज्ञप्तिसूत्रे. जंबूद्दीवे णं भंते ! दीवे केवइयं ओगाहित्ता केवइया चंदमंडला पण्णत्ता ? गोयमा ! जंबू दीवेणं दीवे असीयं जोयणसयं ओगाहित्वा एत्थ ण चंदमंडला पण्णता ।
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy