________________
चन्द्रप्राप्तिसूत्रे वर्णनमस्ति ११, 'देवाणं अज्झयणा' देवानामध्ययनानि, द्वादशे प्राभृतप्राभृते देवानां नक्षत्राधिष्ठायकदेवानाम् अध्ययनानि-अधीयन्ते जायन्ते एभिरिति व्युत्पत्त्या अध्ययनानि अभिधेयानि नामानि वर्णनीयत्वेन सन्ति १२,'मुहुत्ताणं नामया इय' मुहर्तानां नामकानीति च त्रयोदशे प्रामृतप्रामृते एकाहोरात्रसम्बन्धिनां त्रिंशन्मुहुर्तानां किं किं नामेति वर्णनम् १३॥ १७॥ 'दिवसा राई य वुत्ता य' दिवसा रात्रयश्च उक्ताश्च-चतुर्दशे प्राभृतप्राभृते एकस्य पक्षस्य दिवसानां रात्रीणां च प्रकरणात् नामानि उक्तानीति १४, 'तिही' तिथयः, पञ्चदशे प्राभृतप्रामृते 'तिहि'-इति पञ्चदशतिथीनां नामान्युक्तानि १५, 'गोत्ता' गोत्राणि, पोडशे प्रामृतप्राभृते 'गोत्ता' इतिअष्टाविंशतिनक्षत्राणां गोत्राणि प्रोक्तानि १६, 'भोयणाणि य भोजनानि च, मप्तदशे प्राभृतप्रामृते 'भोयणाणि' इति-अष्टाविंशतिनक्षत्राणां भोजनान्युक्तानि, यथा-अमुकस्मिन् नक्षत्रे अमुक वस्तु भुक्त्वा गमनं शुभाय भवतीति १७, 'आइच्चचार' आदित्यचारः अष्टादशे प्रामृतप्रामृते आदित्यस्य सूर्यस्य, उपलक्षणात् चन्द्रस्य च चारः-चरणं संचरणलक्षणं कथितम् १८, 'मासा य मासाश्च-एकोनविंशतितमे प्रामृतप्रामृते एकस्य संवत्सरस्य कति मासाः, तेषां च कानि लौकिकनामानि ? कानि च लोकोत्तरनामानीति कथनम् १९, पंच संवच्छरा इय' पञ्च संवत्सरा इति । पञ्च संवत्सरा इति पञ्चेति पञ्चसंख्यकाः-नक्षत्र-युग-प्रमाण-लक्षणशनैश्चरसंज्ञकाः संवत्सराः, तेषां वक्तव्यताऽत्र विंशतितमे प्राभृतप्राभृते वर्त्तते २०॥१८॥'जोईसस्स य दाराई, ज्योतिषश्च द्वाराणि-एकविंशतितमे प्रामृतप्राभृते ज्योतिषः-नक्षत्रचक्रस्य द्वाराणि वाच्यानि यथा-अष्टाविंशतिनक्षत्राणि पूर्वपश्चिमादिप्रकारेण किद्विाराणि-कस्य नक्षत्रस्य किं द्वारमिति वर्णनम् , अत्र पश्च प्रतिपत्तयः सन्ति २१, 'नखत्तविसए इय' नक्षत्रविषय इति-द्वावि. शतितमे प्रामृतप्रामृते नक्षत्राणाम् उपलक्षणात् चन्द्रसूर्ययोगादीनां च-विषयः-निर्णयोऽत्र वक्तव्यत्वेन वर्तते २२। 'दसमे पाहुडे' दशमे मूलप्रामृते 'एए' एते पूर्वप्रदर्शिताः 'वावीसं' द्वाविंशतिः द्वाविंशतिसंख्यकाः 'पाहुडपाहुडा' प्रामृतप्रामृतानि सन्तीति । इदमुक्तं भवति-प्रथमप्राभृतादारभ्य दशमप्रामृतपर्यन्तम् (२९-१४-१२-३२-२०-२५-२०-३-१२६-१०) एकनवत्यधिकशतद्वय (२९१) परिमिताः प्रतिपत्तयः सन्ति । तदने एकादशप्रामृतादारभ्य षोडशप्रामृतपर्यन्तं प्रतिपत्तयो न सन्ति । पुनः सप्तदशाद् विंशतिपर्यन्तं चतुर्यु प्रामृतेषु क्रमशः पञ्चविंशति-पञ्चविंशतिद्वादशचतुःसंख्यकप्रतिपतिसंमेलनेन सर्वाः पट्टपष्टि' (६६) प्रतिपत्तयः सन्ति । एवं सर्वेषु विंशतिसंख्यकेपु प्राभृतेपु सर्वाः प्रतिपत्तयो मिलित्वा सप्तपञ्चादशदधिकशतत्रय(३५७)संख्यका भवन्तीति कोष्ठके प्रदर्शितम् अत्र तृतीयमूलप्रामृतादारभ्य नवममूलप्रामृतपर्यन्तं, तथा एकादशादारम्य विंशतितममूलप्रामृतपर्यन्तं च प्रामृतप्रामृतानि न सन्तीति ॥१९॥