________________
चन्द्रासिम हाशिमा टीका प्रा १० प्रा. प्रा ११ चन्द्रमार्गनिरूपणम् ३३३ एवं गौतमेन पृष्टे सति भगवान् तानि भिन्न भिन्नरूपेण प्रदर्शयति 'ता एएसिणं' इत्यादि 'ता तावत् 'एएसि ण अट्ठावीसाए णक्खत्ताणं' एतेषां खलु अष्टाविशतेर्नक्षत्राणां मध्ये 'जे णं' णक्खत्ता यानि खलु नक्षत्राणि 'सया' सदा सर्वकाल 'चदस्स दाहिणेण' चन्द्रस्य दक्षिणे दक्षिणस्यां दिशि स्थितानि 'जोयं जोएंति' योगं युञ्जन्ति 'ते णं' तानि खलु 'छ' षट् षट् संख्यकानि सन्ति 'तं जहा' तयथा तानि यथा 'संठाणा' सस्थाना मृगशिरः १, 'अदा' आर्द्रा २, 'पुस्सो' पुष्य ३ 'अस्सेसा' अलेपा ४, 'हत्थो' हस्तः ५, 'मूलो' मूलश्च ६, इति एतानि सर्वाण्यपि मृगशिर आदीनि नक्षत्राणि पञ्चदशस्य चन्द्रमण्डस्य बहिश्चार चरन्ति तथाचोक्त जम्बूद्वीपप्रज्ञप्तौ ।
संठाणा अद्द पुस्सोऽसिलेस हत्थो तहेच मूला य । वाहिरओ वाहिरमंडलस्त छप्पि य नवखत्ता ॥१॥ छाया-संस्थाना आर्द्रा पुष्यः अश्लेपा हस्तस्तथैव मूलश्च ।
बाह्यतो बाह्यमण्डलस्य पडपि च नक्षत्राणि ॥१॥ एतानि नक्षत्राणि सदैव दक्षिणदिग् व्यवस्थितान्येव चन्द्रेण सह योग युञ्जन्ति नान्यथेति ॥१॥ 'तत्थ' तत्र तेपु नक्षत्रयोगप्रकारेषु 'जे ते णक्खत्ता' यानि तानि नक्षत्राणि सन्ति तेषु 'जे णं' यानि खलु नक्षत्राणि 'सया' सदा सर्वदा 'चंदस्स उत्तरेणं जोयं जोएंति' चंद्रस्य उत्तरे उत्तरदिशि स्थितानि योग युञ्जन्ति 'ते णं' तानि खलु 'वारस' द्वादश सन्ति 'तंजहा' तद्यथा तानीमानि-अभिई अभिजित् १' 'सवणो' श्रवणः २, धनिष्ठा धनिष्ठा ३, 'सयभिसया' शतभिषक् ४, 'पुन्या भदवया' पूर्वाभाद्रपदा ५, 'उत्तराभवया' उत्तराभाद्रपदा, ६, रेवई' रेवती, अस्सिणी, अश्विनी ८, 'भरणी' भरणी ९, पुव्वाफग्गुणी' पूर्वाफल्गुनी १०, उत्तराफरगुणी उत्तराफल्गुनी ११, साई' स्वातिः १२, इति एतानि द्वादशापि नक्षत्राणि सर्वाभ्यन्तर चन्द्रमण्डले चारं चरन्ति । यदा चंद्रस्य एतैः सहयोगो भवति तदा स्वभावतः एव चन्द्र शेपेष्वेव मण्डलेपु वर्त्तते तत एतानि उत्तरदिगू व्यवस्थितान्येव सदैव चन्द्रेण सह योगं युबन्तीति २ ।।
तत्थ तत्र 'जे ते णक्खत्ता' यानि तानि नक्षत्राणि सन्ति तेषु 'जे णं' यानि खलु नक्षत्राणि 'चंदस्स' चन्द्रस्य 'दाहिणेणवि' दक्षिणेऽपि 'उत्तरेणवि' उत्तरेऽपि 'पमद्द पि' प्रमर्दरूपमपि 'जोयं जोएंति' योग युञ्जन्ति 'तेणं सत्त' त्ते खलु सप्त सन्ति; 'तंजहा तद्यथा तानि यथा 'कत्तिया' कृत्तिका १, 'रोहिणी' रोहिणी 'पुणव्यसू' पुनर्वसु ३, 'महा' मघा ४, "चित्ता' चित्रा ५, 'विसाहा' विशाखा ६, 'अनुराहा' अनुराधा ७, । ३ ।
तथा 'तत्थ' तत्र अष्टाविंशतिनक्षत्राणा मध्ये ये यानि 'नक्खत्ता' नक्षत्राणि सन्ति तेषा मध्ये 'जे णं' ये द्वे खलु नक्षत्रे 'चंदस्स' चन्द्रस्य 'दाहिणेणवि' दक्षिणेऽपि तथा