________________
चन्द्राप्तिप्रकाशिका टीका प्रा०६ सू०२
पूर्णिमायां कुलोपकुलादिमम् २८७
पुण्णिमा' प्रौष्ठपदी पूर्णिमा 'जुत्तत्ति' युक्तेति चत्तचं सिया' वक्तव्यं स्यात् शिष्येभ्यः कथनीयं स्यादिति ।२। 'आसोईणं पुण्णिमं' आश्विनी आश्विनमासभाविनी खलु पूर्णिमा 'किं कुलं जोएइ उपकुलं जोएइ, कुलोचकुलं जोएइ' कि कुलं युनक्ति, उपकुलं युनक्ति, कुलोपकुलं युनक्ति ? भगवानाह-'कुलं वा जोएइ उपकुलं वा जोएई' कुलमपि युनक्ति, उपकुलमपि युनक्ति किन्तु 'नो कुलोवकुलं जोएई' नो-नैव कुलोपकुलं युनक्ति, अत्र कुलोपकुलयोयोरेव चन्द्रेण सह योग सद्भावात् कुलत्वेन उपकुलत्वेन कि कि नक्षत्र वर्त्तते ? इत्याह---'कुलं जोएमाणे कुलं युञ्जत् अत्र यदि कुलनक्षत्रं योगं करोति तदेत्यर्थः 'अरिसणीणक्खत्ते जोएइ' अश्विनीनक्षत्रं युनक्ति योगं करोति, तथा 'उपकुलं जोएमाणे' उपकुलं युजत्, यदि उपकुलनक्षत्रं योगं करोति तदा 'रेवई णक्खत्ते' रेवतोनक्षत्रं 'जोएइ' युनक्ति चन्द्रेण सह योगं करोति, अतएव कथ्यते 'आसोई णं पुण्णिम' आश्विनी खल पूर्णिमां 'कुलं वा जोएइ उवकुलं वा जोएइ' कुलमपि युनक्ति उपकुलमपि युनक्ति. या शब्दः सर्वत्र समुच्चयार्थकः । एपापूर्णिमा अनेनैव कारणेन 'कुलेण वा जुत्ता उचकुलेण वा जुत्ता' कुलेनापि युक्ता उपकुलेनापि युक्ता भूत्वा 'आसोईणं पुण्णिमा' आश्विनी खलु पूर्णिमा 'जुत्ताति' युक्तेति 'वत्तव्वं सिया' वक्तव्यं स्यात् कथनीयं भवेत् ३। अथानेऽतिदेशेनाह-एवं' इत्यादि ‘एवं' एवम् अनया रीत्या 'एएणं' एतेन पूर्वोक्तेन पूर्वप्रदर्शितप्रकारेण 'अभिलावेणं' अभिलावेन सूत्ररचनारूपेण 'जाव' यावत् 'पोसिं पुण्णिमं जेहामूलिं पुण्णिमं च' पोपी पूर्णिमां ज्येष्ठामूली ज्येष्ठमासभाविनी पूर्णिमा च 'कुलोचकुलंपि जोएइ' कुलोपकुलमपि युनक्ति, पौष्यां पूर्णिमायां कुलोपकुलमानक्षत्रम् ज्येष्ठामूल्यां पूर्णिमायां च कुलोपकुलमनुराधानक्षत्रमिति विज्ञेयम् । तत्र पौषपूर्णिमायां कुलं पुष्यनक्षत्रम्, उपकुलं पुनर्वसुनक्षत्रमस्ति, तथा ज्येष्ठामूल्यां पूर्णिमायामिति ज्येष्ठमासभाविन्यां पूर्णिमायां कुलं मूलनक्षत्रम् उपकुलं ज्येष्ठानक्षत्रं भवतीति कुलादीनि त्रीण्यपि नक्षत्राणि चन्द्रेण सह यथायोगं योगं कुर्वन्तीति, 'अवसेसासु' अवशेपासु पूर्वप्रदर्शितातिरिक्तासु पूर्णिमासु 'कुलोचकुला नत्थि' कुलोपकुलानि न सन्ति, तासु कुलानि उपकुलानि चैव चन्द्रेण, सह योगं कुर्वन्ति न तु कुलोपकुलानीति भावः । कियत्पर्यन्तमित्याह'जाव' इत्यादि, 'जाव आसाढी पुण्णिमा जुत्ताति वत्तव्वं सिया' यावत्-आषाढी पूर्णिमा युक्तेति वक्तव्यं स्यात् इत्येतत्पर्यन्तं पूर्वप्रदर्शितसूत्रालापकप्रकारेण ज्ञातव्यम् । आलापकाश्च स्वयमूहनीयाः कस्यां पूर्णिमायां किं कुलं किमुपकुलमिति प्रदर्श्यते-श्राविष्ठीत आरभ्य आश्विनी पूर्णिमापर्यन्तं तिस्रः पूर्णिमास्तु पूर्वसूत्रे एव प्रदर्शिताः पौषी-ज्येष्टा मूलीति पूर्णिमाद्वयं तु पर्वं व्याख्यायां प्रदर्शितम् । शेपास्तथाहि-कार्त्तिक्यां पूर्णिमायां कृतिकानक्षत्रं कुलं, भरणी नक्षत्रमुपकुलम् ४॥ मार्गशीर्पपूर्णिमायां मृगशीर्षनक्षत्रं कुलं, रोहिणीनभत्रमुपकुलम् ५। पौषी पूर्व प्रदर्शिता कुला दित्रययोगयुक्तेति पूर्व द्रष्टव्यम् ६। माघीपूर्णिमायां मधानक्षत्रं कुलम्, अश्लेषानक्षत्रमुपकुलम्