________________
२८६
www.www.www.
www
चन्द्रप्राप्तिसूत्रे व्याख्या-गौतमः पृच्छति-'ता सावढि णं' इति, 'ता' तावत् 'सावि िणं' श्राविष्ठिं श्रावणमासमाविनी खलु 'पुण्णिम' पूर्णिमां कि 'कुलं जाएद' कुलं युनक्ति, किं कुलसंजकं नक्षत्रं चन्द्रेण सह योगं कृत्वा श्राविष्ठी पूर्णिमा परिसमापयति ! एवमग्रेऽपि सर्वत्र योजना कर्त्तव्या, कि 'उव कुलं जोएइ' उपकुलं युनक्ति, किं 'कुलोचकुलं जीएइ' कुलोपकुलं युनक्ति ? भगवानाह---'ता' तावत् 'कुलं वा जोएइ' कुलं वा युनक्ति, अत्र 'वा' शब्दस्य समुच्चयार्थकत्वात् कुलमपि युनक्तीत्यर्थः, एवमग्रेऽपि विज्ञेयम्, 'उपकुलं वा जोएई' उपकुलमपि युनक्ति, 'कुलीवकुलं वा जोएइ' कुलोपकुलमपि युनक्ति, तत्र 'कुल जोएमाणे' कुलं युञ्जत् कुलसंज्ञक नक्षत्रं योगं कुर्वन्नित्यर्थः 'धनिट्ठाणक्खत्त' धनिष्ठानक्षत्र 'जोएइ' युनक्ति, धनिष्ठानक्षत्रस्यात्र कुलसज्ञकत्वात् 'उवकुलं जोए माणे' उपकुलं युश्नत् 'सवणणक्खत्ते जोएइ' श्रवणनक्षत्रं युनक्ति, श्रवणनक्षत्रस्यात्रोपकुलसंज्ञकत्वात् , 'कुलोवकुलं जोएमाणे' कुलोपकुलं युञ्जत् 'अभिईणक्खत्ते' अभिजिन्नक्षत्रं 'जीएइ' युनक्ति अभिजिन्नक्षत्रस्यात्र कुलोपकुलसंज्ञकत्वात् । अभिजिन्नक्षत्रं हि तृतीयायां श्राविष्ट्यां पौर्णमास्यां किञ्चिदधिकद्वादशमुहर्तेपु शेपेपु-चन्द्रेण सह योगं युनक्ति ततः श्रवणेन सहास्य सहचरत्वात् स्वस्य च तृतीय श्राविष्ठ्याः पौर्णमास्या. पर्यन्तवर्त्तित्वात् तदपि तां परिसमापयतीति विवक्षया 'युनक्ति इत्यभिहितम् । उपसंहारमाह-'सावहिं णं' इत्यादि, 'सावहिं णं पुण्णिमं' श्राविष्ठी खलु पूर्णिमा 'कुलं वाजोएइ, उपकुलं वा जोएइ, कुलोचकुलं वा जोएइ' कुलं वा युनक्ति, उपकुलं वा युनक्ति कुलोपकुलं वा युनक्ति । ततः किमित्याह—'कुलेण वा जुत्ता उपकुलेण वा जुत्ता, कुलोवकुलेण वा जुत्ता'कुलेनापि युक्ता, उपकुलेनापि युक्ता, कुलोपकुलेनापि युक्ता 'साविही पुण्णिमा' श्राविष्ठी पुर्णिमा 'जुत्ताति वत्तव्वं सिया' युक्तेति कुलादित्रिकैर्युक्ताऽस्तीति वक्तव्यं वाच्यं स्यात् ।१। 'ता' तावत् 'पोहबइ णं पुण्णिम' प्रोष्ठपदी भाद्रपदी भाद्रपदमासभाविनी खल पूर्णिमा 'किं कुलं जोएइ, उपकुलं जोएइ, कुलोवकुलं जोएइ' कि कुलं युनक्ति, उपकुलं युनक्ति, कुलोपकुलं युनक्ति ? भगवानाह-'ता' तावत् 'कुल वा जोएइ उवकुलं वा जोएइ कुलोवकुलं वा जोएई' कुलमपि युनक्ति, उपकुलमपि युनक्ति, कुलोपकुलमपि युनक्ति । तत्र 'कुलं जोएमाणे' कुलं युञ्जत् , यदा कुलसंज्ञक नक्षत्रमत्र पूर्णिमायां योगं करोति तदा 'उत्तरापोहवयाणक्खत्ते' उत्तराप्रोष्ठपदानक्षत्रं 'जोएइ' युनक्ति योगं करोति, "उपकुलं जोएमाणे' उपकुलं युञ्जत् 'पुवापोहवया णक्खत्ते' पूर्वाप्रोष्ठपदानक्षत्र 'जोएइ' युनक्ति, 'कुलोवकुलं जोएमाणे' कुलोपकुलं युञ्जत् ‘सयभि सया णक्खत्ते जोएइ' शतभिपग नक्षत्रं युनक्ति, अतएव 'पोहबई णं पुण्णिम' प्रोष्ठपदी खलु पूर्णिमा 'कुलं वा जोएइ, उपकुलं वा जोएइ, कुलोवकुलं वा जोए३' कुलं वा युनक्ति, उपकुलं वा युनक्ति, कुलोपकुलं वा युनक्ति, भाद्रपदपूर्णिमायाम् उत्तराप्रोष्ठपदा पूर्वाप्रोष्ठपदा शतभिषग्नक्षत्राणामेव कुलादि संज्ञकत्वात् । एवमधिकृत्यैव प्रौष्ठपदी पूर्णिमा 'कुलेण वा जुत्ता, उवकुलेण वा जुत्ता. कुलोवकुलेण वा जुत्ता' कुलेनापि युक्ता, उपकुलेनापि युक्ता, कुलोपकुळेनापि युक्ता 'पोट्ठवई