________________
चन्द्राप्तिप्रकाशिका टोका प्रा०१ गा०१०-१२ प्रथमप्राभृतगतान्तरप्राभृतविषयनिरूपणम् ९
तदेवं विंशतेपि प्राभृतानामर्थाधिकाराः प्रदर्शिताः, अथ विंशतेरपि प्राभूतानामपान्तर्गतप्राभृतप्राभृतानां विषयान् वर्णयन् पूर्व प्रथमप्राभृतगताष्टप्राभृतप्राभूतानां विषयान् वर्णयति-'बुहोवुड्ढी' इत्यादि । मूलम्वु ड्डो-वुड्डी मुहत्ताणं, अद्धमंडलसंठिई,
के ते चिण्णं पडियरइ, अंतरं किं चरंति य॥१०॥ ओगाहइ केवइयं, केवइयं च विकंपई।
मंडलाण य संगणे विक्खंभे अ पाहुडा ||११|| छाया-वृद्धयपवृद्धी मुहर्तानां अर्धमण्डलसंस्थितिः।
कस्ते चीर्ण प्रतिवरति अन्तरं किं चरन्ति च ॥१०॥ अवगाहते कियत्कं, कियत्कं च विकम्पते ।
मण्डलानां च संस्थानं, विष्कम्भः अष्ट प्रामृतानि ॥११॥ व्याख्या-'बुड्ढो-वुड्ढी मुहुत्ताणं' वृद्धयपवृद्धी मुहूर्तानाम् प्रथमस्य प्राभृतस्याष्टौ प्राभृतप्रामृतानि सन्ति, तेपु प्रथमे प्राभृतप्रामृते अन्तरप्राभृते अहोरात्रगतानां मुहर्तानां वृद्धिः-वर्धनम्, अपवृद्धिः हानिः, इत्येतद्विपयवक्तव्यता वर्त्तते १ । 'अद्धमंडलसंठिई' अर्धमण्डलसंस्थितिः, दक्षिणोत्तरयोः संचरतोईयोः सूर्ययोर्यन्मण्डलार्ध, तस्य प्रत्यहोरात्रं या संस्थितिः संस्थानम् आकृतिः तस्या वर्णनं द्वितीयेऽन्तरप्राभृते वर्तते २ । 'के ते चिण्णं पडियरई' कस्ते चीर्ण प्रतिचरति, भगवन् ! ते तव मते द्वयोः सूर्ययोर्मध्ये कः सूर्यः कियत्क्षेत्रं स्पृष्ट्वा पुनः अपरेण सूर्येण चर्णिम् पूर्वसंक्रान्तं क्षेत्र प्रतिचरति संचरतीति । तथा जम्बूद्वीपे द्वौ सूर्यों स्तः तन्मध्ये कः सूर्यो भरतक्षेत्रस्य, कश्च ऐरवतक्षेत्रस्यास्ति, स्वं प्रति स्वस्य कानि मण्डलानि, कानि चान्यस्य मण्डलानीत्यादिविषयक तृतीयमन्तरप्रामृतम् ३ । 'अंतरं कि चरंति य' अन्तरं किं चरतश्च, द्वावपि सूर्यों परस्परं कियस्परिमितस्य क्षेत्रस्यान्तरं कृत्वा चारं चरतः ? इतिविषयकं चतुर्थमन्तरमामृतम् , अत्र विषये ऽन्यतैर्थिकप्ररूपणारूपाः षट् प्रतिपत्तयः सन्ति ४ । 'ओगाहइ केवइयं' अवगाहते कियत्कं एकैकेन रात्रिन्दिवेन एकैकः सूर्यः कियत्कंकिय प्रमाणक क्षेत्रमवगाहते-अवगाह्य चारं चरतीतिविषयक पञ्चममन्तरप्राभृतम् , अत्र परमतरूपाः पञ्च प्रतिपत्तयः सन्ति ५, 'केवडयं च विकंपई' कियत्कं च विकम्पते, कियत्कं-कियत्प्रमाणकं च क्षेत्र विकम्पते-विमुश्चति विमुच्य चारं चरतीतिविपयकं षष्ठमन्तरप्रामृतम् , अत्र परमतरूपाः सप्त प्रतिपत्तयः सन्ति ६ । 'मंडलाण य संठाणे' मण्डलानां च संस्थानम् , सूर्यादीनां मण्डलानि कीदृशसंस्थानयुक्तानि वर्त्तन्ते ? इनिविषयकं सप्तममन्तरप्राभृतम् , मान्यतैर्थिकप्ररूपणारूपा अष्ट प्रतिपत्तयः सन्ति ७ ।