________________
चन्द्रप्राप्तिसूत्रे वा एककस्मिन् मण्डले कति कति अहोरात्राणि भवन्ति , एकस्मिन् युगे प्रत्येकस्य कति मण्डलानि भवन्ति, इत्यादिविषयकं पञ्चदशं प्राभृतम् १५ । 'किं ते जोसिणलक्खणं' किं ते ज्योत्स्नालक्षणम् , ते तव मते ज्योत्स्नायाः चन्द्रमूर्यप्रकाशरूपायाः किं लक्षणम् , उपलक्षणात् छायायाः अन्धकारस्य किं लक्षणम् ? इत्यादिविषयकं पोडशं प्राभृतम् १६ ।। गा० ८ ॥
'चयणोववाय' च्यवनोपपातौ चन्द्रसूर्ययो श्च्यवनमुपपातश्चेतिविषयकं सप्तदश प्राभृतम् , अत्रान्यतैर्थिकप्ररूपणारूपा. पञ्चविंशतिः प्रतिपत्तयः सन्ति १७ । 'उच्चत्तं' उच्चत्वम् , चन्द्रसूर्यादीनां समभूमिभागात् कियत्प्रमाणकमुच्चत्वम् ? इत्येतत्प्रतिपादकमष्टादशं प्रामृतम् । अत्रान्यतैर्थिकप्ररूपणारूपाः पञ्चविंशतिः प्रतिपत्तयः सन्ति १८। 'सरिया कति आहिया' सूर्याः कति आख्याताः, द्वीपसमुद्रपु चन्द्रसूर्यादयः कति कतिसंख्यकाः कथिताः ? इत्येतत्प्रतिपादकमेकोनविंशतितमं प्रामृतम् , अत्रान्यतैर्थिकप्ररूपणारूपा द्वादश प्रतिपत्तयः सन्ति १९ । 'अणुभावे केरिसे बुत्ते' अनुभावः कीदृश उक्तः ! चन्द्रसूर्ययोरनुभावः प्रभावः सुखमित्यर्थः स कीदृशः किंस्वरूपकः उक्तः कथितः ! चन्द्रसूर्ययोः सुखस्य वर्णनं युवकपुरुषदृष्टान्तेन तस्मादुत्तरोत्तरमनन्तगुणविशिष्टतरं सुखं वानव्यन्तरादारभ्यासुरकुमारपर्यन्तं वर्णितम् , तेभ्योऽनन्तगुणविशिष्टतरं सुखं ग्रहगणनक्षत्रतारारूपाणां कथितम् , तेभ्योप्यनन्तगुणविशिष्टतरं सुखं चन्द्रसूर्ययोः प्रतिपादितम् । चन्द्रसूर्ययोर्मेसनविषये राहुवर्णनम्-अत्रान्यतैर्थिकप्ररूपणारूपे द्वे द्वे चेति चतस्रः प्रतिपत्तयः सन्ति, अष्टाशीतिग्रहनामप्रतिपादनम् , चन्द्रप्रज्ञप्तेर्ज्ञानदानादिवर्णन चेत्यादिविषयकं विशतितमं प्राभृतम् २० । 'एवमेताणि वीसई' एवमेतानि विंशतिः प्राभृतानि चास्यां चन्द्रप्रज्ञप्त्यां सन्ति ।
एपु विंशतिसंख्यकेपु प्राभृतेषु मध्ये त्रिपु प्रथम-द्वितीय-दशमरूपेषु प्राभृतेषु क्रमशोऽष्ट-त्रिद्वाविंशति-रूपाणि त्रयस्त्रिंशद् अन्तरप्राभृतानि सन्ति, शेषेषु सप्तदशसु प्रामृतेषु अन्तरप्रामृतानि न सन्ति । अत्रान्यतैर्थिकप्ररूपणारूपाः प्रतिपत्तयः सर्वा मिलित्वा सप्तपञ्चाशदधिकशतत्रयसंख्यकाः (३५७) भवन्ति ।
अथ प्रामृतशब्दस्य कोऽर्थः ! उच्यते-इह प्रामृतं नाम यन्महापुरुपाय देशकालौचित्येन परिणामसुखदं विशिष्टं वस्तु उपनीयते तत् प्रामृतनाम्ना लोके प्रसिद्धम् । प्राभ्रियते-पोष्यते महापुरुषस्यान्तर्गतं मनो येन तत् प्रामृतम्-उपहारः (भेट) इति भाषाप्रसिद्धम् , अनया व्युत्पत्त्या वक्ष्यमाणा शास्त्रपद्धतयोऽपि परमदुर्लभाः परिणामसुखदाश्च ता विनयादिगुणसंपन्नेभ्यः शिष्येभ्यो देशकालौचित्येन समुपनीयन्तेऽत एताः शास्त्रपद्धतयः प्रामृतानीव प्रामृतानि सन्ति तत एताः शास्त्रपद्धतयोऽपि प्राभृतशब्देन प्रोच्यन्ते । एषु चान्तर्गतानि प्राभृतानि प्रामृतप्राभृतानीति कथ्यन्ते ॥गा०९॥