________________
चन्द्रशतिप्रकाशिका टीका प्रा० १०-२ सू०१
पुर्णिमायां नक्षत्रयोगनिरूपणम् २६१
श्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा - अभिजित् १, श्रवणः २, धनिष्ठा ३ । (१) तावत् प्रोष्ठपद खलु पूर्णिमां कति नक्षत्राणि युञ्जन्ति । तावत् त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथाशतभिषक १, पूर्वपदा २, उत्तरप्रोष्ठपदा ३ । (२) तावत् आश्विन खलु पूर्णिमां कति नक्षत्राणि युञ्जन्ति ? ४ तावत्-द्वे नक्षत्रे युङ्क्तः, तद्यथा-रेवती अश्विनी च ३ । तावत् कार्त्तिक खलु पूर्णिमां कति नक्षत्राणि युज्जन्ति ! तावत् द्वे नक्षत्रे युक्तः तद्यथा-भरणी कृत्तिका च. ४ । तावत् मार्गशीर्षी खलु पूर्णिमां कति नक्षत्राणि युञ्जन्ति । तावत् द्वे नक्षत्रे युङ्क्तः, तद्यथा - रोहिणी मृगशिरश्च ५) तावत् पौष खलु पूर्णिमां कति नक्षत्राणि युज्जन्ति ?, तावत् त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा आर्द्रा १ पुनर्वसुः २, पुष्यम् ३ । (६) तावत् मालु पूर्णिमां कति नक्षत्राणि युञ्जन्ति १, तावत् द्वे नक्षत्रे गुङ्क्तः, तद्यथा - अषा मधाच ७ तावत् फाल्गुन खलु पूर्णिमां कति नक्षत्राणि युञ्जन्ति ?, तावत्-द्वे नक्षत्रे युङ्क्तः तद्यथा - पूर्वाफाल्गुनी उत्तराफाल्गुनी च ८ । तावत् चैत्रीं खलु पूर्णिमां कति नक्षत्राणि युञ्जन्ति ! तावत् द्वे नक्षत्रे युक्तः, तद्यथा-हस्तः चित्रा च ९ । तावत् वैशाखीं खलु पूर्णिमां केति नक्षत्राणि युज्जन्ति ? तावत् द्वे नक्षत्रे युङ्क्तः, तद्यथा - स्वातिः विशाखा च १० । तावत् ज्येष्ठामूलीं खलु पूर्णिमा कति नक्षत्राणि युञ्जन्ति । तावत् त्रोणि नक्षत्राणि युञ्चन्ति तयथा - अनुराधा १ ज्येष्ठा २, मूलं च ३ |११| तावत् आषाढ़ी खलु पूर्णिमां कति नक्षत्राणि युञ्जन्ति ? तावत् द्वे नक्षत्रे युङन्तः, तद्यथा - पूर्वाषाढा, उत्तराषाढा च ॥ (२२) ॥ सू०१ ॥
व्याख्या - गौतमः पृच्छति - 'ता कहं ते पुण्णमासी' इत्यादि 'ता' तावत् 'कह' केन प्रकारेण कैः कैः नक्षत्रैर्युक्ता इत्यर्थः ' पुण्णमासी' पूर्णमास्यः उपलक्षणात् अमावास्याश्च 'आहिया' आख्याताः कथिताः ? ‘ति वएज्जा' इति वदेत्-एतद्विषयं वदतु हे भगवन् ! एवं गौतमेन पृष्टे भगवानाह—'तत्थ' इत्यादि, 'तत्थ' तत्र पूर्णमास्यमावास्याविषये 'स्खलु' निश्चयेन 'बारस पुण्णमासीओ' द्वादश पूर्णमास्यः, तथा 'वारस अमावासाओं' द्वादश अमावास्याश्च 'पण्णत्ताओ' प्रज्ञप्ताः कथिताः ‘तंजहा' तद्यथा ता यथा - 'साविट्ठी' इत्यादि, 'साविट्ठी' श्राविष्ठी श्रविष्ठेति धनिष्ठा तदुपलक्षिता श्राविष्ठी श्रावणमासभाविनी पूर्णिमा श्राविष्ठी कथ्यते, इयं प्रथमा पूर्णिमा १। 'पोवई' प्रोष्ठपदी प्रोष्ठपदा उत्तराभाद्रपदा तदुपलक्षिता भाद्रपदमासभाविनी पूर्णमासी प्रोष्ठपदी कथ्यते २। 'आसोई' आश्विनी अश्विनी नक्षत्रोपलक्षिता आश्विनमासभाविनी पूर्णिमा आश्विनी कथ्यते ३ | 'कत्तिई' कार्त्तिकी - कृत्तिकानक्षत्रोपलक्षिता कार्त्तिकमास भाविनी पूर्णिमा कार्त्तिकी कथ्यते ४ । 'मग्गसिरी' मार्गशीर्षी - मृगशिरोनक्षत्रोपलक्षिता मार्गशीर्षमास भाविनी पूर्णिमा मार्गशीर्षी कथ्यते ५। 'पोसी' पौषी पुष्यनक्षत्रोपलक्षिता पौषमासभाविनी पूर्णिमा पौपी कथ्यते ६, । 'माही' माघी मघानक्षत्रोपलक्षिता माघमासभाविनी पूर्णिमा माघी कथ्यते ७) 'फग्गुणी' फाल्गुनी उत्तराफाल्गुनी नक्षत्रोपलक्षिता फाल्गुनमासभाविनी पूर्णिमा फाल्गुनी कथ्यते ८| 'चेत्ती' 'चैत्री - चित्रा नक्षत्रोपलक्षिता चैत्रमासभाविनी पूर्णिमा चैत्री कथ्यते ९ । 'वेसाही' वैशाखी - विशाखा नक्षत्रोपलक्षिता वैशाखमासभाविनीं पूर्णिमा वैशाखी कथ्यते १०।