________________
चन्द्राप्तिप्रकाशिका टीका प्रा० १०-४ सू१
योगस्यादिनिरूपणम् २५५
यथा उत्तराभाद्रपदा तथा बोध्या, सा चैवम्-तावत् उत्तराषाढा खलु नक्षत्रम् उभयभागं दूयर्धक्षेत्रं पञ्चचत्वारिंशन्मुहूर्त तत्प्रथमतया प्रातः चन्द्रेण सार्ध योगं युनक्ति, तदिवसं ततः अपरां रात्रि ततः पश्चात् राज्यनन्तरम् अपरं दिवस यावत् चन्द्रेण सह तिष्ठति एवं खलु उत्तराषाढानक्षत्रं द्वौ दिवसौ एकां च रात्रि यावत् चन्द्रेण साध योगं युनक्ति योगं युक्त्वा योगम् अनुपरिवर्तयति, योगम् अनुपरिवर्त्य सायं चन्द्रम् अभिजिच्छु वणाभ्यां समर्पयति ।२८। एवमिदम् अभिजित मारभ्य उत्तराषाढापर्यन्तम् अष्टाविंशतिनक्षत्रात्मकं नक्षत्रचक्र चन्द्रेण सार्ध योगं युनक्तीति । इदं योगप्रकारेण पञ्चदश मुहर्त्तात्मकदिवस-पञ्चदशमुहर्तात्मकरात्रिरूपसमदिवसरात्रि समयगतं विज्ञेयम्, नक्तं भागनक्षत्रस्य पञ्चदशमुहूर्तत्वेन, द्वयर्यक्षेत्रनक्षत्रस्य च पञ्चचत्वारिंशन्मूतत्वेन प्रतिपादनात् तदेवं बाहुल्यमाश्रित्य पूर्वोक्तप्रकारेण यथोक्तकालषु नक्षत्राणि चन्द्रेण सार्ध योगं युञ्जन्ति कानिचित् पूर्वभागानि, कानिचित् पश्चाद्भागानि कानिचित् नक्तंभागानि कानिचिच्च उभयभागानि कथितानीति ॥सूत्रम् १ ।।
इति श्री चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रप्रज्ञप्तिप्रकाशिकाटीकायां दशमस्य प्राभृतस्य चतुर्थं प्रामृतप्रामृतं समाप्तम् ॥ १०-४ ॥ इति श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचकपञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक -वादिमानमर्दक-श्रीशाहुन्छत्रपति कोल्हापुरराजप्रदत्त "जैनशास्त्राचार्य" पदभूषित -कोल्हापुर राजगुरु बालब्रह्मचारि-जैनशास्त्राचार्य-जैनधर्मदिवाकर श्रीघासीलालति-विरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिका
ख्यायां व्याख्यायाम् दशमस्य प्रामृतस्य चतुर्थ प्रामृतप्राभृतं समाप्तम् ॥१०-४॥