________________
२५२
चन्द्रप्राप्तिसूत्र नक्षत्र पूर्व कथितं तथैव विज्ञेयम् , तथाहि तावत् रोहिणी खलु नक्षत्रम् उभयभाग द्वयर्धक्षत्रं पञ्चचत्वारिंशन्मुहूत तत्प्रथमतया प्रातः चन्द्रेण सह योगं युनक्ति सहलं दिवसम् अपरां च रात्रि यावत् , ततः पश्चात् अपरं द्वितीय दिवसं सायंकालपर्यन्तं चन्द्रेण सह योग युनक्ति एवं खलु रोहिणीनक्षत्र द्वौ दिवसौ एकां च रात्रिं यावत् चन्द्रेण साध योगं युनक्ति, योगं युक्त्वा योगम् अनुपरिवर्तयति योगम् अनुपरिवयं सायं चन्द्रं मृगशिरसे समर्पयति ११। 'मिगसिरं जहा धणिहा' मृगशिरो नक्षत्रं यथा धनिष्ठानक्षत्र पूर्व कथितं तथैव भावनीयम् , तथाहि-तावत् मृगशिरो नक्षत्र पश्चाद्भागं समक्षेत्रं त्रिंशन्मुहूत्तं तत्प्रथमतया सायं चन्द्रेण साध योगं युनक्ति, योगं युक्त्वा तां सकलां रात्रि ततः पश्चात् अपरं दिवसं यावत् तिष्ठति, एवं खलु मृगशिरो नक्षत्रम् एकां रात्रिम् एकं च दिवसं यावत् चन्द्रेण साधं योग युनक्ति योग युक्त्वा योगम् अनुपरिवर्तयति, योगम् अनुपरिवर्त्य सायं चन्द्रम् आर्द्रायै समर्पयति, 'सायं' इति परिस्फुटनक्षत्रमण्डलालोकसमये, इत्यों बोध्यः आनिक्षत्रस्य नक्तंभागत्वादिति १२। 'अदा जहा सयभिसया' आर्द्रा यथा शतभिषक् तथा ज्ञातव्या, तच्चैवम्-तावत् भाः खलु नक्षत्रं नक्तंभागम् अपार्धक्षेत्रं पञ्चदशमुहूत्त तत्प्रथमतया सायं चन्द्रेण साधं योगं युनक्ति, एतत् आ नक्षत्रं नो लभते अपरम् अन्यं दिवस रात्रिमात्रभोग्यत्वात् , एवं खल मानक्षत्रम् एकां रात्रिं यावत् चन्द्रेण साधू योगं युनक्ति, योगं युक्त्वा योगम् अनुपरिवर्तयति, योगम् अनुपरिवयं प्रातः चन्द्रं पुनर्वसवे समर्पयति ।१३। 'पुणवम् जहा उत्तराभवया' पुनर्वसुः यथा उत्तराभाद्रपदा कथिता तथैव विज्ञेयः, तथाहितावत् पुनर्वसुः खलु नक्षत्रम् उभयभागं द्वयर्धक्षेत्रं पञ्चचत्वारिंशन्मुहूर्त तत्प्रथमतया प्रातः चन्द्रेण साध योगं युनक्ति, ततः सकल दिवप्तम् अपरां च रात्रि ततः पश्चाद् अपरं दिवसं च यावत् एवं खल पुनर्वसुः नक्षत्र द्वौ दिवसौ एकां च गत्रिं चन्द्रेण साधै योगं युनक्ति योगं युक्त्वा योगम् अनुपरिवर्तयति, योगम् अनुपरिवर्त्य सायं द्वितीयदिवसस्य सायंकाले नक्षत्रमण्डलस्य परिस्फुटनकाले चन्द्रं पुष्याय समर्पयति १४। 'पुस्सो जहा धणिटा' पुण्यो यथा धनिष्ठा, पुष्यनक्षत्रं यथा धनिष्ठा नक्षत्रं पूर्व प्रतिपादितं तथैव विज्ञेयम् तदेवाह-तावत् पुष्यः खलु नक्षत्रं पश्चाद्भागं सायंकालव्यापित्वात् समक्षेत्रं त्रिंशन्मुहर्त तत्प्रथमतया-सायं चन्द्रेण सार्ध योगं युनक्ति योगं युक्त्वा ततः पश्चात् रात्रिसमाप्त्यनन्तरम् अपरं द्वितीयं दिवसं यावत् , एवं खलु पुष्यो नक्षत्रम् एकां रात्रिम् एकं च दिवसं यावत् चन्द्रेण साधं योगं युनक्ति, योगं युक्त्वा योगम् अनुपरिवर्तयति, योगम् अनुपरिवर्त्य सायं काले चन्द्रम् अश्लेषायै समर्पयति १५॥ 'असलेसा जहा सयभिसया' मलेपा यथा शतभिषगूनक्षत्रं तथाऽवसेया, तथाहि-तावत् मलेपा, खलु नक्षत्रं नक्तंभागम् अपार्धक्षेत्रं त्रिशन्मुहत्त तत्प्रथमतया सायं चन्द्रेण साध योगं युनक्ति, योगं युक्त्वा नो लभते अपरं द्वितीय दिवसं नक्तं भागत्वेन रात्रिमात्रभोग्यत्वात् एवं खल