SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २०८ चन्द्रप्राप्तिस्त्रे अस्त्येके नो संतप्यन्ते (ये) अस्त्येके संतप्यमानाः (ते) तदनन्तरान् बाह्यान् पुद्गलान् संतापयन्ति, अस्त्येके असंतप्यमानाः तदनन्तरान् वाह्यान् पुद्गलान् नो संतापयन्तीति, एतत् खलु तत् समितं तापक्षेत्रम् एके पवमाहुः ।। __वयं पुनरेवं बदाम. तावत् या इमाः चन्द्रसूर्ययोर्दैवयोः विमानेभ्यः लेश्याः बहिः अभिनिस्सृताः ता प्रतापयन्ति, पतासां खलु लेश्यानाम् अन्तरेषु अन्यतराः छिन्नलेश्याः समूर्छन्ति, तत. खलु ता छिन्नलेश्याः संमूर्छिताः सत्यः तदनन्तरान् वाह्यान पुद्गलान् संतापयन्तीति पतत् खलु तत् समित तापक्षेत्रम् ॥१॥सू०१॥ व्याख्या-'ता' तावत् 'कइक' कतिकाष्ट कति कतिप्रमाणा काष्ठा प्रकर्षो यस्याः सा कतिकाष्ठा ता किंप्रमाणामित्यर्थः 'ते' तवमते 'सूरिए' सूर्यः पोरिसिं पुरुष भवा पौरुषी तां 'छाय' छायां पुरुषसम्बन्धिनी छायां 'निव्वत्तेइ' निवर्तयति करोति, अत्रविषये भवन किम्'आहियं', आख्यातम् ? 'ति वएज्जा ' इति वदेत् वदतु कथयतु हे भगवन् ! इति गौतमस्य प्रश्नः । अत्र भगवान् पूर्वमेतद्विषये यावत्यः प्रतिपत्तयो वर्तन्ते ता दर्शयति-'तत्थ खल' इत्यादि । 'तत्थ' तत्र पौरुषी छायाप्रमाणविषये खलु तापक्षेत्रस्वरूपविषयाः 'इमाओ' इमाः वक्ष्यमाणाः 'तिण्णी' तिम्रः' 'पडीवत्तीओ' प्रतिपत्तयः 'पण्णत्ता' प्रज्ञप्ताः, 'तं जहा तद्यथा-'तत्थ' तत्र त्रिपु प्रतिपत्तिवादिपु मध्ये 'एगे' एके प्रथमाः एवं' एवम्-वक्ष्यमाणप्रकारेण 'आहंसु आहुः कथयन्ति । किं कथयन्तीत्याह-'ता जे णं" इत्यादि । 'ता' तावत् 'जे णं' ये खलु पोग्गला पुद्गला. ' 'सूरियस्स लेस्सं सूर्यस्य लेश्यां 'फूसति' स्पृशन्ति 'ते णं पोग्गला' ते खलु पुद्गलाः 'संतप्पंति' संतप्यन्ते; अत्र कर्मकर्तरि प्रयोगः, 'ते ण-पोग्गला-ते-खलु पुद्गलाः सतप्पमाणा' संतप्यमानाः सूर्यलेश्यातापेन संतप्ता भवन्तः सन्तः 'तयाणंतराई' तदन्तरान् संतप्यमानपुद्गलानामव्यवधानाऽग्रे स्थितान् 'वाहिराई. बाह्यान् तत्प्रदेशाबहिःस्थितान् 'पोग्गलाई' पुद्गलान् सूत्रे नपुंसकत्वमापत्वात्', 'संतातित्ति' सन्तापयन्ति, इति, अत्र इति शब्दः प्रस्तुतवाक्यपरिसमाप्तिसूचकः 'एस णं' एतत् एवंस्वरूपं खलु 'से' तस्य सूर्यस्य 'समिए समितं संपन्नं 'तावखेत्ते' तापक्षेत्रमस्ति । अत्र पुंस्त्वं प्राकृतत्वात् । उपसंहारः 'एगे' एके प्रथमाः 'एवं' एवं पूर्वोक्तप्रकारेण 'आइंसु' आहुः कथयन्ति । इति प्रथमा प्रतिपत्तिः ॥१॥ अथ द्वितीयां प्रतिपत्तिमाह-एगे पुण' इत्यादि ‘एगे पुण' एके द्वितीया पुनः ‘एवं एवं वन्यमाणप्रकारेण 'आइंसु' माहुः कथयन्ति- 'ता' तावत 'जे णं-पुग्गला' ये खलु पुद्गलाः 'मूरियस्स लेस्सं'- सूर्यस्य लेश्यां 'फुसंति' स्पृशन्ति 'ते णं पोग्गला' ते खल पुद्गलाः 'नो संतप्पति' नो सतप्यन्ते संतप्ता न भवन्ति ते णं पोग्गला' ते खल्ल पुद्गला: 'असंतप्पमाणा' असंतप्यमानाः नसंतप्ता. भवन्तः सन्तः 'तयाणंतराई' तदनन्तरान् अव्यवधानेन वद
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy