________________
चन्द्रज्ञप्तिप्रकाशिकाटीका प्रा०८ सू०२ भगवता प्रदर्शितदिवसरात्रि प्रकारस्तन्मुहूर्त्तमानं च १९७
किंचित्प्रमाणस्य वा दिवमप्रमाणे यथा यथा न्यूनत्वं जायते तथा तथा रात्रिप्रमाणे एकैकमुहूर्त्तस्य किंचित्प्रमाणस्य वाऽधिकत्वं ज्ञातव्यम् । तथाहि यदा - 'सत्तरसमुहुत्ते दिवसे सप्तदश मुहूर्त्तो दिवस तदा 'तेरसमुहुत्ता राई भवइ' त्रयोदशमुहूर्त्ता रात्रिर्भवति । यदा 'सत्तरसमुहुत्ताणंतरे दिवसे' सप्तदशमुहूर्त्तानन्तरः सप्तदशमुहूर्त्तेभ्यः किंचिन्न्यूनो दिवसो भवति तदा 'साइरेगातेरसमुहुत्ता राई भवई' सातिरेका किंचिदधिका त्रयोदशमुहूर्त्ता रात्रिर्भवति । यदा 'सोलसमुडुत्ते दिवसे' पोडशमुहूर्त्तो दिवसो भवति तदा ' चउद्दसमुहुत्ता राई भवः' चतुर्दशमुहूर्त्ता रात्रिर्भवति । यदा 'सोलसमुहुत्ताणतरे दिवसे' षोडशमुहूर्त्तानन्तरः षोडशमुहूर्त्तेभ्यः किंचि - म्यूनो दिवसो भवति तदा 'साइरेगा' सातिरेका किंचिदधिका ' चउदसमुहुत्ता राई भवइ' चतुर्दशमुहूर्त्ता रात्रिर्भवति । यदा 'पण्णरसमुहुत्ते दिवसे' पञ्चदशमुहूर्ती दिवसो भवति तदा 'पण्णरसमुहुत्ता राई भवई' पश्चदशमुहूर्त्ता रात्रिर्भवति ।
अत्र पूर्वं प्रथमप्राभृतस्य प्रथमे प्राभृतप्राभृते कथितम् - 'नत्थि पण्णरसमुहुत्ते दिवसे नत्थि पण्णरसमुहुत्ता राई भवइ' नास्ति परिपूर्णपञ्चदशमुहूत दिवसो नास्ति परिपूर्णा पञ्चदशमुहूर्त्ता रात्रिर्भवनीति, अस्य कारणमपि गणितेन तत्र प्रदर्शितम् तत्रत्यमेतत्कथनं निश्चयनयमाश्रित्य कृनं वर्तते, अत्र व्यवहारनयमाश्रित्य 'पञ्चदशमुहूर्त्ती दिवसः पञ्चदशमुहूर्त्ता रात्रिः ' इति कथितमतो न कोऽपि दोषः । दृश्यते हि लोके किञ्चिन्न्यूनाधिकशत संख्यायाम् इदमेकं शतम्' इति व्यवहार इति ।
प्रकृतमनुसरामः – यदा 'पण्णरसमुहुत्ताणंतरे दिवसे' पञ्चदशमुहूर्त्तानन्तरो दिवसो "भवति पञ्चदशमुहुर्त्तेभ्यः किञ्चिन्न्यूनो दिवसो भवति तदा 'साइरेगा' सातिरेका किञ्चिदधिका 'पण्णरसमुहुत्ता राई भव' पञ्चदशमुहूर्त्ता रात्रिर्भवति । यदा- - 'चउद्दसमुहूत्ते दिवसे' चतुदेशमुहूर्त्ती दिवसो भवति तदा 'सोलसमुहुत्ता राई भवइ' षोडशमुहूर्त्ता रात्रिर्भवति । यदा चउद्दसमुहुत्ताणंतरे दिवसे' चतुर्दशमुहूर्त्तानन्तरः चतुर्दशमुहूर्त्तेभ्यः किञ्चिन्न्यूनो दिवसो भवति तदा 'साइरेगा' सातिरेका किञ्चिदधिका 'सोलसमुहुत्ता राई भवइ' षोडशमुहूर्त्ता रात्रिर्भवति । यदा 'तेरसमुहुत्ते दिवसे' त्रयोदशमुहूर्त्ता दिवसो भवति तदा 'सत्तरसमुहुत्ता राई भवइ' सप्तदशमुहूर्त्ता रात्रिर्भवति । यदा 'तेरसमुहुत्ताणंतरे दिवसे' त्रयोदशमुहूर्त्तानन्तर. त्रयोदशमुहूर्त्तेभ्यः किञ्चिन्न्यूनो दिवसो भवति तदा 'साइरेगा' सातिरेका किञ्चिदधिका 'सत्तरसमुहुत्ता राई भवइ' सप्तदशमुहूर्त्ता रात्रिर्भवति । अथाप्रे सूत्रकारः स्वयमालापक प्रदर्शयति 'ता जया णं' इत्यादि । 'ता' तावत् 'जया णं' यदा खलु 'जंबुद्दीवे दीवे' जम्बुद्वीपे द्वीपे 'दाहिणड्ढे' दक्षिणार्धे 'जहण्णए' जघन्यकः सर्वलघुः 'दुवालसमुहुत्ते दिवसे भवइ' द्वादश