SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे १९६ समुहुत्ते दिवसे भव' अष्टादशमुहूर्त्ती दिवसो भवति 'तया णं' तदा खलु 'उत्तर देवि ' उत्तराsy- 'उक्कोसए' उत्कर्षकः 'अहारसमुहुते दिवसे भवइ' अष्टादशमुत्तों दिवसों भर्वात । द्वयोः सूर्ययोः परस्परं विपरीत समकालसन्मुखमण्डलचारित्वेन यदा एकः सूर्यः दक्षिणा सर्वाम्यन्तरमण्डले चारं चरति तदाऽपरोऽपि उत्तरार्धे सर्वाभ्यन्तरमुण्डले चारं चरति तथा स्वाभा व्यात् ततो दक्षिणोत्तरयोरुभयत्र समान दिवसप्रमाणत्वं समीचीन मेवेति भावः । 'जया णं' यदा खल्ल 'उत्तरद्रुढे' उत्तरार्धे उपलक्षणात् दक्षिणार्धे च 'उक्कोसए अट्ठारसमुहुत्ते दिवसे भवद्द' उत्कर्षकः अष्टादशमुहूर्त्ता दिवसो भवति 'तया णं जंबुद्दीचे दीवे' तदा खलु जम्बूक पे - द्वीपे 'मंदरस्स पव्वयस्स' मन्दरस्य पर्वतस्य 'पुरस्थिमपच्चत्थिमेण' - पौरस्त्यपाश्चात्ये पूर्वस्यां पश्चिमायां च दिशि 'जहणिया' जधन्यिका सर्वलध्वी 'दुवालसमुहुत्ता राई भवइ' द्वादशमुहूर्ता रात्रिर्भवति । सर्वाम्यन्तरमण्डले चारं चरतोः द्वयोः सूर्ययोः सर्वत्रापि द्वादशमुहूर्त्ताया एव रात्रे - र्भावात् । यतो हि त्रिंशन्मुहूर्त्ताहोरात्रसत्त्वेऽष्टादश मुहूर्त्तास्तत्र दिवसभागे व्यतीता, नाता तो द्वादशमुहूर्त्ता एव रात्रेः शेषा स्तिष्ठेयुरिति । 'ता' तावत् 'जया णं' यदा खलु 'जंबुद्दीवे दीवे' नम्बूद्वीपे द्वीपे 'मंदरस्स पञ्चयस्स ' मन्दरस्य पर्वतस्य 'पुरस्थिमेणं' - पौरस्त्ये पूर्वस्यां दिशि 'उक्कोस अट्ठारसमुडुत्ते दिवसे भवः' उत्कर्षकः अष्टादशमुहूर्त्ती दिवसो भवति 'तया णं' तदा खलु 'पच्चत्थिमेण वि' पाश्चात्येऽपि पश्चिमदिशायामपि 'उक्कोसए अट्ठारससुहुत्ते दिवसे 'भवद्द' उत्कर्षकः अष्टादशमुहूर्त्ते दिवसो भवति । द्वयो सूर्ययोः परस्परविपरीत संमुखमण्डल समकालचा रित्वेन यदा पूर्वदिकुचारी सूर्यः सर्वाभ्यन्तरमण्डले चारं चरति तदाऽपरः पश्चिमदिकू - चारी सूर्योऽपि सर्वाभ्यन्तरमण्डले चारं चरति तथा स्वाभाव्यात् ततः पूर्वपश्चिमयोः उभयत्रापि दिवसयोः समानप्रमाणत्वं भवत्येवेति भावः । ' जया णं' यदा खल्ल 'पच्चत्थिमेणं' पाश्चात्ये पश्चिमदिशायाम् उपलक्षणात् पूर्वस्यां दिशि च 'उक्कोसर' उत्कर्षक:: 'अहारसमुहुत्ते दिवसे भवइ' अष्टादश मुहूत्तों दिवसो भवति 'तया णं' तदा खलु 'जंबुद्रीवे दीवे' जम्बूद्वीपे द्वीपे 'मंदरस्स पव्त्रयस्त' मन्दरस्य पर्वतस्य 'उत्तरदाहिणेणं' उत्तरदक्षिणे उत्तरस्यां दक्षिणस्यां 'च दिशि 'जहण्णिया' नघन्यिका सर्वलध्वी 'दुवालसमुहुत्ता राई भवइ' र्द्वादशमुहूर्त्ता रात्रिर्भवति । सूर्ययोः सर्वाम्यन्तरमण्डलचारसमये रात्रे र्द्वादशमुहूर्त्ताया एवं सर्वत्र सद्भावात् त्रिंशन्मुहूर्त्ताहोरात्रप्रमाणेऽष्टादशमुहूर्त्तानां तत्र दिवसभागे व्यतीतत्वाच्चेति । 'एवं एवम् अनेनाभिलापप्रकारेणाग्रे सर्वत्र भावना करणीया । तत्र यदा. 'अट्ठारस, मुहुचाणंतरे' अष्टादश मुहूर्त्तानन्तरः अष्टादशमुहूर्त्तात् किश्चिन्यूनः 'दिवसे भवइ' दिवसो भवति तदा' 'साइरेगा' सातिरेका किञ्चिदधिका यदा दिवसे यावत्परिमितं न्यूनत्वं भवति तदा रात्रौ तावत्परिमितमेवाघि कत्वं भावनीयम् । 'दुवालसमुहुत्ता राई भवइ' द्वादशमुहूर्त्ता रात्रिर्मति । एवमेकैकमुहूर्तस्य 1 1 "
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy