________________
१९४
...., बद्रप्राप्तिसूत्रे खलु पाश्चात्ये जघन्यको द्वादशमुहूर्तो दिवसो भवति तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरे दक्षिणे उत्कर्षिका अष्टादशमुहर्ता रात्रिर्भवति ॥३. सू०,२॥' :.
___व्याख्या-'वयं पुण' वयं तु 'एवं' एवं-वक्ष्यमाणप्रकारेण 'वयामो' वदामः । किं वदामः । तदेवाह-'ता जंबुद्दीवे दीवे' इत्यादि । 'ता' तावत् 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'सरिया' सूर्यौ द्वौ सूर्यो' भरतैरवतसम्वन्धिनौ मण्डलात्या परिभ्रमन्तौ 'उदीणपाईणं' उदीचीप्राच्या उत्तरपूर्वस्याम् ईशानकोणे 'उग्गच्छति' उद्गच्छतः उद्गत्येत्यर्थः 'पाईणदाहिणं प्राचीदक्षिणस्यां पूर्वदक्षिणायाम्-अग्निकोणे 'आगच्छति' मागच्छतः अस्तं प्राप्नुतः १। 'पाईणदाहिणं' प्राचीदक्षिणस्याम् अग्निकोणे 'उग्गच्छंति' उद्गच्छतः उद्गल्य 'दाहिणपडीणं' दक्षिणप्रतीच्या नैर्ऋतकोणे 'आगच्छंति' मागच्छन्तः अस्तं प्राप्नुतः २ । 'दाहिणपडीणं' दक्षिणप्रतीच्याम् 'उग्गच्छंति' उद्गच्छतः उद्गत्य 'पडीणउदीणं' प्रतीच्युदीच्यां वायुकोणे 'आगच्छंति, मागच्छतः अस्तं प्राप्नुतः।३। 'पडीणउदीणं' प्रतीच्युदीच्यां वायुकोणे 'उग्गच्छंति' उद्गच्छतः उद्गत्य 'उदीणपाईणं' उदीचीप्राच्याम् ईशानकोणे. 'आगच्छति मांगच्छतः अस्तं प्राप्नुतः । एवं द्वौ भरतरवतसूर्यो ईशानकोणाद् उद्गल्य चतुर्पु विदिक्षु उदयास्तक्रमेण परिभ्रम्य अन्ते ईशानकोणे एव अस्तं प्राप्नुतः । एवं जम्बूद्वीपस्य द्वीपस्य, परितः द्वौ सूर्यो मण्डलगत्या परिभ्रम्य चारं चरतइति भावः । - -
अयं तावत् सामान्यतः समुदितयोयोः सूर्ययोरुदयास्तविधिः प्रदर्शितः । विशेषत एकैकसूर्यमाश्रित्य तद्विधिरेवं ज्ञातव्यः-अत्र एकः सूर्यो द्वितीयसूर्यस्य सन्मुखं प्रतिकूलदिशि चारं चरति इति लोकव्यवस्थाया नियमः, यथा-यदा एकः सूर्यः उत्तरपूर्वस्यामीशानकोणे उद्गछति तदा द्वितीयः दक्षिणपश्चिमायां नैर्ऋतकोणे उद्गच्छति, यदा उत्तरपूर्वस्यांमुद्गतः सूर्यः प्राचीदक्षिणस्याम् आगच्छति पूर्वक्षेत्रापेक्षया अस्तमेति तत्क्षेत्रापेक्षया 'चोद्गच्छतीत्यवधेयम्तदा दक्षिणप्रतीच्या नैऋतकोणे उद्गतः सूर्यः प्रतीच्युदीच्याम् , वायव्यकोणे, आगच्छतीति पूर्वक्षेत्रापेक्षयाऽस्तमेति तत्क्षेत्रापेक्षया चोद्गच्छतीति ज्ञातव्यम् न कदापि सूर्य उद्गच्छति न चास्तमेति च किन्तु सूर्यस्य चक्षुपोः स्पर्शास्पर्शमाश्रित्य लोका उदयास्तशब्देन व्यवहरन्ति । सूर्यस्य चक्षुःस्पर्श सूर्य उदितः, इति चक्षुःस्पर्शामावे सूर्यः' अस्तंगतः इति लोका व्यवहरन्तीति विवेकः । प्रकृतमनुसरामः-यदा एकः सूर्यः पूर्वदक्षिणस्याम् अग्निकोणे, उंदूगच्छति तदाऽपरः प्रतीच्युदीच्या तत्सन्मुखं वायव्यकोणे समुद्गच्छति, एप , द्वयोः सूर्ययो उदयविधिः । यदा पूर्वदक्षिणोद्गतश्च भारतः सूयों भरतादीनि क्षेत्राणि मेरुदक्षिणदिग्भावीनि मण्डलगत्या परिभ्रमन् प्रकाशयति, तदाऽपरः सूर्यः पश्चिमोत्तरस्यां वायव्यकोणे समुद्गतः सन् तत ऊवे मण्डलगत्या परिभ्रमन् ऐरवतादीनि क्षेत्राणि यानि मेरोरुत्तरदिगुमावीनि वर्तन्ते तानि