SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ वेन्द्रशतिप्रकाशिका टीका प्रा०-६ सू० १ भीजसंस्थितिनिरूपणम् १७९ ते पुनस्त्रिंशदधिकाष्टादशशत भागाः कथं कल्प्यन्ते ? इति प्रदर्श्यते - इह - एकैकं मण्डलं द्वौ सूर्यौ एकैकेनाहोरात्रेण परिभ्रम्य पूरयतः । अहोरात्रश्च त्रिंशन्मुहूर्त्त प्रमाणो भवति, प्रतिसूर्यं चाहोरात्रगणनायां परमार्थतो द्वयोः सूर्ययोः द्वौ अहोरात्रौ भवतः । अतो द्वयोरहोरात्रयोर्मुहूर्त्ताः षष्टिसंख्यका नायन्तेऽतो मण्डलं प्रथमतः षष्ट्या भागैर्विभज्यते एकस्य मण्डलस्य पष्टिभागा जाता इत्यर्थः । अथ निष्क्रामन्तौ द्वौ सूर्यो प्रत्यहोरात्रं प्रत्येकं द्वौ द्वौ मुहूर्त्तेक षष्टिभागौ हापयत, प्रविशन्तौ चाभिवर्धयतः, ततश्च द्वौ मुहूर्त्ते कषष्टिभग समुदितौ भवतः, तयोरेकः सार्वत्रिंशत्तमो भागो भवति, ततः षष्टिरपि भागाः सार्वत्रिशताते जाताखिशदधिकाष्टादशशतभागा (६० x ३० ॥ = १८३० ) । अत्र गुण्याङ्काः षष्टि (६०) गुणकाङ्क्षाः सार्धत्रिंशत् (३०|) अनयोर्गुणने समायाति यथोका संख्या (१८३०) इति । एवं निष्क्रामन् सूर्यः प्रतिमण्डलं त्रिंशदधिकाष्टादशशतसंख्यकभागानां सत्कमेकैकं भागं दिवसक्षेत्रगतस्य भोजस. ( प्रकाशस्य) हापयन् हापयन् रजनीक्षेत्रस्य चाभिवर्धयन् अभिवर्धयन् सूर्यः सर्ववाह्यमण्डले गच्छति ततः सर्वबाह्यमण्डलपर्यन्तमेव वक्तव्यम् । सर्व वाह्यमण्डले त्र्यशीत्यधिकमेकं शतं (१८३ ) भागानां दिवसक्षेत्रगतस्य प्रकाशस्य हापनेन रजनीक्षेत्रस्य चाभिवर्धनेन भवति । एतच्च त्र्यशीत्यधिकं भागशतं त्रिंशदधिकाष्टादशशतभागानां दशमो भागो भवति, ततः सर्वाभ्यन्तरान्मण्डलात् सर्वचाह्यमण्डले दिवसक्षेत्रस्य जम्बूद्वीपचक्रवालदशभागस्त्रुट्यति, रजनी क्षेत्रस्य चाभिवर्धते इति पूर्वमभिहितमेव । एवमेव सर्वाभ्यन्तरं मण्डलं प्रविशन् प्रतिमण्डलं त्रिंशदधिकाष्टादशशत भागानां सत्क मेकैकं भागं दिवसक्षेत्रगतस्य प्रकाशस्याभिवर्धयन् रात्रिक्षेत्रगतस्य प्रकाशस्य च हापयन् तावद् वक्तव्यं यावत् सर्वाभ्यन्तरे मण्डले त्र्यशोत्यधिकैकशतभागं (१८३) दिवसक्षेत्रगतस्य प्रकाशस्याभिवर्धयति, रजनीक्षेत्रस्य च त्र्यशीत्यधिकशतभागं हापयति । एतत् त्र्यशीत्यधिकं भागशतं च जम्बूद्वीपचक्रवालस्य दशमो भागो भवति, ततः सर्वबाह्य मण्डलात् सर्वाभ्यन्तरमण्डले दिवसक्षेत्रगतस्य प्रकाशस्यैको दशमश्चक्रवालभागोऽभिवर्धते, रजनीक्षेत्रस्य चैषस्त्रुट्यति, इति यत् प्रागभिहितं तत्समुचितमेवेति । एतत्सर्वं भगवान् मूळे प्रदर्शयिष्यति । तदेवाह - ' तया णं' इत्यादि । 'तया णं' तदा सूर्यस्य निष्क्रमणसमये खलु यदा एकेन रात्रिन्दिवेन एकं भागं दिवसक्षेत्रगतस्य प्रकाशस्य हापयित्वा रजनीक्षेत्रस्य चाभिवर्ध्य सूर्यश्चारं चरति तदा इत्यर्थः, 'अद्वारसमुहुत्ते दिवसे भव' अष्टादशमुहूर्त्ते दिवसो भवति किन्तु स. ' दोहिं एगसट्टिभागमुहुत्तेहिं ऊणे' द्वाभ्यामेकषष्टिभागमुहूर्त्ताभ्यासूनः - होनो भवति, 'दुवालसमुहुत्ता राई भवइ' द्वादशमुहूर्त्ता रात्रिर्भवति, सा च 'दोहिं एगसद्विभागमुहुत्तेर्हि' अहिया द्वाभ्यामेकषष्टिभागमुहूर्त्ताभ्यामधिका भवतीति ।
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy