________________
चन्द्रज्ञप्तिप्रकाशिका टीका प्रा० ६ सू० १
ओजसंस्थितिनिरूपणम्
१७५
भवति द्वाभ्यामेकषष्टिभागमुत्तभ्यामधिका । स निष्क्रामन् सूर्यः द्वितीयेऽहोरात्रे आभ्य न्तरानन्तरं तृतीयं मण्डलमुपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः आभ्यन्तरानन्तरं तृतीयं मडण्लमुपसंक्रम्य चारं चरति तदा खलु द्वाभ्यां रात्रिन्दिवाभ्यां द्वौ भागौ ओजसा दिवसक्षेत्रस्य निर्वर्ध्य २ रजनीक्षेत्रस्य अभिवर्ध्य चारं चरति, मण्डलम् अष्टादशभिः त्रिंशता शतैः छित्त्वा तदा खलु अष्टादशमुत्तों दिवसो भवति चतुर्भिरे कषष्टिभागमुहूतैः : ऊनः द्वादशमुहूर्त्ता रात्रिर्भवति चतुर्भिरेकपटिभागमुहूर्तेरधिका । एवं खलु एतेन उपायेन निष्क्रामन् सूर्यः तदनन्तरात् तदनन्तरं मण्डलात् मण्डलं संक्रामन् २ एकैकस्मिन् मण्डलै कैकेन रात्रिन्दिवेन पकैकं भागम् ओजसा दिवसक्षेत्रस्य निर्वर्धयन् २, रजनीक्षेत्रस्य अभिवर्धयन् २ सर्वबाह्यं मण्डलमुपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः सर्वाभ्यन्तरात् मण्डलात् सर्ववाह्यं मण्डलमुपसंक्रम्य चारं चरति तदा खलु सर्वाभ्यन्तरं मण्डलं प्रणिधाय पकेन व्यशीतिकेन रात्रिन्दिवशतेन एकं व्यशीतिकं भागशतम् ओजसा दिवसक्षेत्रस्य निर्वर्ध्य, रजनीक्षेत्रस्य अभिवर्ध्य चारं चरति, मण्डलम् अष्टादशभिः त्रिशता शतैः छित्त्वा तदा खलु उत्तमकाष्ठा प्राप्ता उत्कर्षिका अष्टादश मुहूर्त्ता रात्रिर्भवति जघन्यक: द्वादशमुहुत्तों दिवसो भवति । पतत् खलु प्रथमं षण्मासम् । एतत् खलु प्रथमस्य पण्मासस्य पर्यवसानम् ॥
सः प्रविशन् सूर्यः द्वितीयं षण्मासम् अयन् प्रथमे अहोरात्रे वाह्यानन्तरं मण्डलम् उपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः वाह्यानन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु पकेन रात्रिन्दिवेन एकं भागम् ओजसा रजनीक्षेत्रस्य निर्वर्ध्य दिवसक्षेत्रस्य अभिवर्ध्य चारं चरति, मण्डलम् अष्टादशभिस्त्रिशता शतैः छित्त्वा तदा खलु अष्टदशमुहूर्त्ता रात्रिर्भवति द्वाभ्यामेकषष्टिभागमुहृताभ्याम् ऊना द्वादशमुत्तों दिवसो भवति द्वाभ्यामेकषष्टिभागमुहूर्त्ताभ्याम् अधिकः । स प्रविशन् सूर्यः द्वितीये अहोरात्रे वाह्यानन्तरं तृतीय मण्डलम्वसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः बाह्यानन्तरं तृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा खलु द्वाभ्यां रात्रिन्दिवाभ्यां द्वौ भागौ ओजसा रजनीक्षेत्रस्य निर्वर्ध्य, दिवसक्षेत्रस्य अभिवर्ध्य चारं चरति, मण्डलम् अष्टादशभिः त्रिंशता शतैः छित्त्वा तदा खलु अष्टादशमुहूर्त्ता रात्रिभवति चतुर्भिरेकषष्टिभागमुहर्त्तेरूना, द्वादशमुहूर्त्ती दिवसो भवति चतुर्भिरेकषष्टिभाग रधिकः । एवं खलु एतेन उपायेन प्रविशन् सूर्यः तदनन्तरात् तदनन्तरं मण्डला मण्डलं संक्रामन् २ एकैकेन रात्रिन्दिवेन पकैकं भागम् ओजसा रजनीक्षेत्रस्य निर्वर्ध्य २, दिवसक्षेत्रस्य अभिवर्ध्य २ सर्वाभ्यन्तरं मण्डलं उपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः सर्ववाह्यात् मण्डलात् सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं रति तदा खलु सर्ववाह्य मण्डलं प्रणिधाय पकेन व्यशीतिकेन रात्रिन्दिवशतेन एक यशतिकं भागशतम् ओजसा रजनीक्षेत्रस्य निर्वर्ध्य दिवसक्षेत्रस्य अभिवर्ध्य चारं चरति, मण्डलम् अष्टादशभिः त्रिंशता शतैः छित्त्वा तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षकः अष्टादशमुहूर्त्ती दिवसो भवति, जघन्यिका द्वादशमुहूर्त्ता रात्रिभंति । पतत् खलु द्वितीयं षण्मासम् । एतत् खलु द्वितीयस्य षण्मासस्य पर्यवसानम् । एष खलु आदित्यः संवत्सरः । पतत् खलु आदित्यस्य संवत्सरस्य पर्यवसानम् ॥ सू० १ ॥
॥ चन्द्रप्रज्ञप्त्यां षष्ठं प्राभृतं समाप्तम् ६॥