________________
१६८
चन्द्रप्राप्तिसूत्रे पर्वते ।१५। तावत् अवतंसे स्खल पर्वते १६ तावत् घरणिकीले खलु पर्वते 1१७) तावत् घरणिशृङ्गे खलु पर्वते ।१८ तावत् पर्वतेन्द्रे खलु पर्वते ।१९। एके पुनरेव माहुः-तावत् पर्वतराजे खलु पर्वते सूर्यस्य लेश्या प्रतिहता आख्याता इति वदेत् , एके पवमाहुः ॥२०॥
वयं पुनरेवं वदामः-तावत् मन्दरोऽपि प्रोच्यते, मेरुरपि प्रोच्यते तावत् पर्वतराजोऽपि (२०) प्रोच्यते । तावत् ये खलु पुद्गलाः सूर्यस्य-लेश्यां स्पृशन्ति ते खलु पुद्गलाः सूर्यस्य _ लेश्यां प्रतिघ्नन्ति, अदृष्टा अपि खल पुद्गलाः सूर्यस्य लेश्यां प्रतिघ्नन्ति, चरमलेश्यान्त· रगता अपि खलु पुद्गलाः सूर्यस्य लेश्यां प्रतिध्नन्ति सू० ॥१॥
. . . चन्द्रप्रशत्यां पञ्चमं प्रामृतं समाप्तम् ॥५॥
व्याख्या:-'ता' तावत् सर्वाभ्यन्तरमण्डले यदा सूर्यश्चारं चरति तदा सूर्यस्य लेश्या प्रसरतीति ‘कस्सि णं' कस्मिन् खलु स्थाने 'सूरियस्स लेस्सा' सूर्यस्य लेश्या तेजो रूपा पडिहया' प्रतिहता अवष्टब्धा प्रतिरुद्धेत्यर्थः 'आहिया' आख्याता ? 'ति वएज्जा' इति वदेत् वदतु हे भगवन् ।
. इदमत्र तात्पर्यम्-इहाभ्यन्तरं प्रविशन्ती सूर्यस्य लेश्याऽवश्यं प्रतिहता भवति, सा च कस्मिन् स्थाने प्रतिहता भवतीति जिज्ञामा नायते यतो हि सूर्यस्य सर्वाभ्यन्तरे सर्वबाह्ये च मण्डले चारसमये पश्चचत्वारिंशत्सहस्रयोजनपरिमितमेव जम्बूद्वीपगतं तापक्षेत्रमायामतः प्रोक्तम् , इयत्परिमितं तापक्षेत्रं च सर्वाभ्यन्तरमण्डलस्थिते सूर्ये लेश्याप्रतिघातं 'विना नोपलभ्यते, यद्येवं न मन्यते तदा सर्वाभ्यन्तरमण्डलाद्वहिः सूर्यस्य निष्क्रमणसमये तत्सम्बन्धिनस्तापक्षत्रस्यापि निष्क्रमणसद्भावात्, सूर्यस्य . सर्वबाह्यमण्डलचारसमये तापक्षेत्रमायामतो हीनमायाति, किन्तु तस्य हीनत्वं न प्रतिपादितम् , मतो ज्ञायते सूर्यस्य लेश्या क्वापि प्रतिहताऽवश्यं जाता भवेत् , इति तद वबोधाय एप प्रश्नो गौतमेन कृतः । इमं प्रश्नं स्पष्टी कर्तृकामो भगवान् प्रथममेतद्विपये यावत्यः प्रतिपत्तयः सन्ति ता उपदर्शयति -'तत्थ खलु' इत्यादि ।।
'तत्थ खलु' तत्र लेश्याप्रतिघातविषये खलु 'इमाओ' इमा अग्रे वक्ष्यमाणस्वरूपाः 'वीसं' विंशतिः विंशतिसंख्यकाः 'पडिवत्तीओ' प्रतिपत्तयः परमतमान्यतारूपाः 'पण्णत्ताओ' प्रज्ञप्ताः कथिताः. - 'त जहां तद्यथा-ता यथा-'तत्थ' तत्र विंशतिप्रतिपत्तिवादिपु. मध्ये 'एगे' एके केचन प्रथमास्तीर्थान्तरीयाः 'एव माहंसु' एवं , वक्ष्यमाणप्रकारेण आहुः कथयन्ति–'ता' - तावत् 'मंदरंसि णं पव्वयंसि' मन्दरे खलु पर्वते 'सरियस्स लेस्सा' सूर्यस्य लेश्या तेजो
रूपा 'पडिहया' प्रतिहता 'आइिया' आख्याता 'ति वएज्जा' इति वदेत् इति कथनीयमित्यर्थः 'एगे' एके प्रथमाः एवमाहंस एवं पूर्वोक्तप्रकारेण आहुः ।१। 'एगे पुण' एके केचन द्वितीया 'एवमाहमु एवं वक्ष्यमाणप्रकारेण आहुः कथयन्ति -'ता' तावत् 'मेरुसि णं पव्व· यंसि' मेरौः खल पर्वते 'मरियस्स लेस्सा' सूर्यस्य लेश्या 'पडिहया आहिया' प्रतिहता