________________
१४४
चन्द्रप्राप्तिस्त्रे तदा खलु जम्बूद्वीपस्य द्वीपस्य त्रीन् पञ्चचक्रभागान् अवभासयतः उद्योतयतः तापयतः प्रकाशयतः, तद्यथा-एकोऽपि सूर्यः एकं द्वयधं (द्वितीयाध-सार्द्धमेकं) पञ्चचक्रभागम् अवभासयति ४, एकोऽपि सूर्यः द्वध (द्वितीया-सार्धमेक) पञ्चचक्रभागम् अवभासयति उद्द्योतयति तापयति प्रकाशयति तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षक: अष्टादशमुहूत्तों दिवसो भवति, जन्यिका द्वादशमुहर्ता रात्रिर्भवति । तावत् यदा खलु एतौ द्वौ सूयौँ प्रर्ववाह्य मण्डलम् उपसंक्रम्य चारं चरतः तदा खलु जम्बूद्वीपस्य द्वीपस्य द्वौ पञ्च चक्रवालभागान् अवभासयनः उद्द्योतयतः तापयतः प्रकाशयतः । तावत् एकोऽपि सूर्य एकं पञ्च, चक्रभागम् अवभासयति उद्द्योतयति तापयति प्रकाशयति । तदा खलु उत्तमकाष्ठा प्राप्ता उत्कर्पिका अष्टादशमुहर्ता रात्रिर्भवति, जघन्यको द्वादशमुहत्तों दिवसो भवति ।सू० १॥
॥ चन्द्रप्रशप्त्यां तृतीय प्राभृतं समाप्तम् ॥ell व्याख्या-'ता केवइयं' इत्यादि । 'ता' तावत् 'केवइयं' कियकं कियत्परिमितं क्षेत्रं 'चंदिमसरिया' चन्द्रसूर्याः बहुवचनं च जम्बूद्वीपे चन्द्रद्वयसूर्यद्वयसद्रावात् 'ओभासेंति' अवभासयन्ति, तत्र अवमासस्तु ज्ञानस्य प्रतिभासोऽपि भवेदितितन्निराकर्तुमाह-'उज्जोवेति' उद्द्योतयन्ति, 'धुतिर्दीप्तौ' इति धातोः प्रेरणायां रूपम-दीपयन्तीत्यर्थः, 'तति' तापयन्ति, एतत् चन्द्रे कथं घटते तस्य शीतरश्मित्वेन प्रसिद्धत्वात, तत्राह-चन्द्रप्रकाशेऽपि आतपशब्दस्य लोके व्यवहारो दृश्यते, उक्तञ्च "चन्द्रिका कौमुदी ज्योत्स्ना, तथा चन्द्रातपः स्मृतः ॥" इति कोषवचनात् आभाससहितं कुर्वन्तीत्यर्थः, तथा 'पगासें ति' प्रकाशयन्ति स्वतेजसा प्रकाशयुक्त कुर्वन्ति ? प्राय एकार्थिका इमे धातवः, देशमेदात् सर्वदेशीयानामवबोधार्थ प्रयुक्ता इति विज्ञेयम्'
आहित' आख्यातम् हे भगवन् भवन्मत एतद्विपये किमाख्यातम् ? 'ति' इति 'धएज्जा' वदेत् • वदतु कथयतु हे भगवन् ! आपत्वाद् वदेत्, इति स्थाने वदतु, इति तकारव्यत्ययः कर्त्तव्यः । एवं गौतमेन प्रश्ने कृते भगवानेतद्विपये परतीथिकानां मिथ्याभावप्रदर्शनाय प्रथमं तेषां प्रतिपत्तीः प्रदर्शयति-'तत्थ खलु' इत्यादि । 'तत्थ' तत्र चन्द्रसूर्याणां क्षेत्रावभासनविचारे खलु 'इमाओ' इमाः वक्ष्यमाणाः 'बारस' द्वादश 'पडिबत्तीओ' प्रतिमत्तयः परमतरूपाः 'पण्णत्ताओ' प्रज्ञप्ताः 'तं जहा' तद्यथा ता यथा 'तत्थ' तत्र तेपु द्वादशप्ठ प्रतिपत्तिवादिषु मध्ये 'एगे एके केचन प्रथमाः ‘एवं एवं वक्ष्यमाणप्रकारेण 'आईसु' आहुः कथयन्ति । किं कथयन्तीत्याह-'ता' तावत् 'चंदिमसरिया' चन्द्रसूर्यो, प्राकृते द्विवचनस्थाने बहुवचनं भवति तत्र द्विवचनाभावात्, तदुक्तम्-"वहुवयणेण दुवयणं' इति । अत्र चन्द्रसूयौ इति द्विवचनं तेषां परतोर्थिकानां मते एकस्य चन्द्रस्य एकस्य च सूर्यस्य मान्यता सद्भावात् एतौ चन्द्रसुयौ 'एग दीव' एक द्वीपं “एगं समुदं एक समुद्रं च 'ओभासेंति' अवभासयतः 'उज्जोवेंति उद्योतयतः 'तवेंति' तापयतः 'पगासेंति' प्रकाशयतः । 'एगे' एके इमे प्रथमास्तीर्थान्तरीया 'एवं' पूर्वोक्तप्रकारेण 'आईमु' आहुः कथयन्ति ।। एवमग्रेऽप्येकादशस्वपि प्रतिपत्तिपु योजना कर्तव्या, व्याख्यातु छायागम्याऽतो न