________________
१२६
चन्द्रज्ञप्तिसूत्रे ततो भवति यथोक्तं अस्मिन् द्वितीयमण्डले मुहूर्तगतिपरिमाणं सप्तचत्वारिंशत्पष्टिभागसहितम् (५२५१-१तया णं' तदा द्वितीयमण्डलचारसमये खलु 'इहगयस्म मणूसस्स' इहगनस्य भर तक्षेत्रस्थितस्य मनुष्यस्य जातावेकवचनत्वात् भरतक्षेत्रस्थिताना मनुष्याणामित्यर्थः, 'सीयालीसाए' जोयणसहस्सेहि' सप्त चत्वारिंशता योजनसहस्रैः 'अउणासीए य जोयणसएणं' एकोनाशीतेन योजनशतेन एकोनाशीत्यधिकेन योजनशतेन (१७९) 'सत्तावण्णाप सहिभागेहिं जोयणस्स' सप्तपञ्चाशता षष्टिभागैयोजनस्य, 'सद्विभागं च' षष्टिभागमेकं च 'एगढिहा छेत्ता' एकपष्टिधा छित्वा एकषष्टिछेदराशिं कृत्वा तेन छित्त्वेत्यर्थः तत्सम्बन्धिभिः 'अउणावीसाए चुणियाभागेहि' एकोनविंशत्या चूर्णिकाभागैः-(४७१७९ ) 'सरिए' मूर्यः 'चक्खुप्फासं' चक्षुःस्पर्शम् 'इव्वं' शीघ्रम् आगच्छइ' आगच्छति प्राप्नोति दृष्टिगोचरीभवतीत्यर्थः । कथमेतदवसीयते । तदेवाह
अस्मिन् द्वितीये मण्डले सूर्यस्य महूर्तगतिपरिमाणं पूर्वप्रदर्शितम् एकपञ्चाशदधिकशतद्वयोत्तरपञ्चसहस्रयोजनानि, सप्तचत्वारिंशच्च पष्टिभागा योजनस्य (५२५१. ४७/६१) इति , अत्र द्वितीयमण्डले सूर्यस्य संचरणसमये दिवसोऽष्टादशमुहूर्तः द्वाभ्यां मुहूत्तैकपष्टिभागाभ्यां च हीनो भवति निष्क्रमणकाले प्रतिमण्डलं दिवसरात्र्योः मुहर्तेकषष्टिभागद्वयस्य क्रमेण हानिवृद्धिनियमसद्भावात् , दिवसस्य हानिः रात्रेश्च वृद्धिर्भवतीतिभावः । ततो दिवसप्रमाणस्याधैः क्रियते तस्याधं नवमुहूर्ताः एकेन मुतिकषष्टिभागेन हीनाः, तत एषामेकषष्टिभागकरणाथै , नवमुहर्ता एकपण्ट्या गुण्यन्ते जातानि एकोनपञ्चाशदधिकानि पञ्चशतानि (५४९) दिवसप्रमाणः एकेन एकपष्टिभागेन होनोऽतोऽस्मात् एकं रूपं निष्कास्यते ततो जातानि-अष्टचत्वारिंशदधिकानि पञ्चशतानि (५४८) । ततोऽस्य द्वितीयमण्डलस्य सप्तोत्तरशताधिकपञ्चदशसहस्रोंत्तराणि त्रीणि लक्षाणि (३१५१०७) परिधिपरिमाणमिति । एषा संख्या अष्टचत्वारिंशदधिकपञ्च शतैः (५४८) गुण्यते, तेन जातः-एककः, सप्तकः, द्विकः, षट्कः, सप्तकः, अटकः, षट्क', त्रिकः, षट्कः इति सप्तदश कोटयः, पड्विंशतिलक्षाः, अष्टसप्ततिः सहस्राणि, षट् शतानि तदु. परि पट्त्रिंशञ्च-(१७२६७८६३६)। तत्र एकषष्टिः षष्टया गुण्यते जातानि षष्टयधिकपट्शतोत्तराणि त्राणि सहस्राणि (३६६०)। अनया संख्यया पूर्वोक्तसंख्याया भागो हियते, हृते च भागे लब्धानि एकोनाशीत्यधिक शतोत्तराणि सप्त चत्वारिंशत्सहस्राणि योजनानाम् (४७१