________________
चन्द्राप्तिप्रकाशिका टीका प्रा०२-३ सू०२ पूर्वोक्तविषयेस्वसिद्धांतप्रतिपादनम् १२३ मण्डलं संक्रामन् २ अष्टादश २ षष्टिभागान् योजनस्य एकैकस्मिन् मण्डले मुहूर्तगतिम् अभिवर्धयन २ चतुरशीति सातिरेक योजनानि पुरुषच्छायां निर्वर्धयन् २ सर्ववाह्य मण्डलम् उपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः सर्ववाह्य मण्डलमुपसंक्रम्य चारं चरति, तदा खलु पञ्च योजनसहस्राणि त्रीणि च पञ्चोत्तराणि योजनशतानि पञ्चदश च षष्टिभागान् योजनस्य एकैकेन मुहन गच्छति, तदा खलु इहगतस्य मनुष्यस्य एकत्रिंशता योजनसहन्नः अष्टभिः एकत्रिशता योजनशतः त्रिशता च षष्ट्रिभागैः योनस्य सूर्यः चक्षुः स्पर्श हव्यमागच्छति, तदा खलु उत्तमकाष्ठाप्राप्ता उत्कर्पिका अष्टादशमुहर्ता रात्रिर्भवति जघन्यकः द्वादशमुहूत्तों दिवसो भवति । एतत् खलु प्रथमं पण्मासम् । एतत् खलु प्रथमस्य पण्मासस्य पर्यवसानम् 'सूत्र २ ॥
व्याख्या-'वयं पुण' इति 'वयं पुण' वयं पुनः वयं तु 'एवं' वक्ष्यमाणप्रकारेण 'वयामो' वदामः कथयामः, तदेव दर्शयनि-'ता' तावत् 'साइरेगाई' सातिरेकाणि किञ्चिदविकानि 'पंच पंच जोयणसहस्साई' पञ्च पञ्च योजनसहस्राणि पञ्चपञ्चमहसूयोजनानि 'सरिए' सूर्यः एगमेगेणं मुहत्तेणं' एकैकेन मुहर्नेन 'गच्छइ' गच्छति । एवं भगवता प्रोक्ते गौतमोऽत्र हेतु पृच्छति'तत्थ को हेऊ' तत्र सूर्यस्य एकैकमुहर्तपरिमितकालेन सातिरेकपच्चसहस्रयोजनगमने को हेतु किं कारणं कोपपत्तिः ? 'इनि' इति 'वएज्जा' वदेत् हे भगवन् ! वदतु कथयतु । भगवान् तत्कारणं प्रदर्शयति-'ता' तावत् 'अयं णं' अयं खलु 'जम्बुद्दीवे दीवे' जम्बूद्वीपो द्वोपः मध्यजम्बूद्वीपः 'जार परिक्खेवेणं पण्णत्ते' यावत्परिक्षेपेण प्रज्ञप्तः अत्र यावत्पदेन जम्बूद्वीपवर्णनं सर्व पठनीयं परिधिपरिमाणपर्यन्तमिति । 'ता' तावत् 'जया णं' यदा खलु 'सुरिए' सूर्यः 'सवमंतरं मंडलं' सर्वाभ्यन्तरं मण्डलम् 'उपसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तयाणं' तदा खलु 'पंच २ जोयणसहस्साई' पञ्च पञ्च योजनसहस्राणि 'दोण्णि य एकावण्णे जोयणसयाई द्वे च एकपञ्चाशद्योजनशते एकपञ्चाशदधिकद्विशतयोजनानि (५२५१) 'एगूणतीसं च सहिभागे जोयणस्स' एकोनत्रिंशतं च पष्टिभागान् योजनस्य (५२. ५१९ एतावत्परिमितं क्षेत्रं सूर्यः ‘एगमेगेणं मुहुत्तेणं गच्छइ' एकैकेनः मुहूत्तन गच्छति प्रत्येक मुहूर्ते एतावत्परिमितं क्षेत्रं पारयतीति भावः । एतत्कथमुपलभ्यते' ? इति प्रदर्श्यतेभरतैरवतसम्बन्धिनौ द्वौ सूर्यो एकैकं मण्डलम् एकैकेन अहोरात्रेण परिसमापयतः, एकैकस्य सूर्यस्यैकैकाहोरात्रगमने वस्तुतो द्वाभ्यामहोरात्राभ्यां परिभ्रमणमाश्रित्य मण्डलपरिसमाप्तिर्भवति' । द्वयोरहोरात्रयोः षष्टिमुहर्ता भवन्ति प्रत्येकाहोरात्रस्य त्रिंशन्मुहूर्तप्रमाणत्वात् । एषां षष्टिसंख्या भाजकराशित्वेन विज्ञेया, भाज्यराशिश्च मण्डलपरिधिपरिमाणसंख्या, मण्डलपरिधिपरिमाणं च सर्वाभ्यन्तरे मण्डले एकोननवत्यधिकंपञ्चदशसहस्रोत्तराणि त्रोणि लक्षाणि-(३१