________________
चन्द्रेशप्तिप्रकाशिका टीका प्रा०१-८ सू० १४ मण्डलपदांनां प्रमाणनिरूपणम् ८५ पूर्वोक्तप्रकारेण आहुः कथयन्तीति तृतीया प्रतिपत्तिः ।३। एषाऽपि मिथ्याभावपोषिका पूर्ववदेव गणितरीत्या परिधिपरिमाणस्यासाङ्गत्यगर्मितत्वात् । इति तिस्रोऽपि प्रतिपत्तयो मिथ्याभावप्ररूपकत्वादनादरणीयाः ।
साम्प्रतं भगवान् स्वमतं प्रदर्शयति-'वयं पुण' इत्यादि 'वयं पुण' वयं पुनः 'एवं' एवं वक्ष्यमाणप्रकरण 'क्यामो' वदामः-कथयामः. कथमित्याह-'ता' तावत् 'सव्वावि मंडलवया' सर्वाण्यपि मण्डलपदानि प्रत्येकम् 'अडयालीसं एगसट्ठिभागा जोयणस्स' अष्टचत्वारिंशद् एकपष्टिभागा ) योजनस्य 'वाहल्लेणं' वाहल्येन एतद् बाहल्यपरिमाणं नियतं सर्वत्र बाहल्यपरिमाणस्यैतावत एव सद्भावात् , किन्तु 'अणियया' अनियतानि · 'आयामविक्खंभेणं' आयामविष्कम्भेण, तथा 'परिक्वेणं' परिक्षेपेण च. आयामविष्कम्भपरिक्षेपैः पुनरनियतानि सर्वाण्यपि मण्डलपदानि वर्तन्ते तत्र सर्वेषां पृथक्त्वेन लाभात् अत आयामविष्कम्भपरिक्षेपैरनियतानि सर्वाग्यपि मण्डलपदानि 'अहिया' आख्यातानि कयितानि 'इति वदेज्जा' इति वदेत् गौतमः पुनः पृच्छति 'तत्थ णं' इत्यादि 'तत्थ णं' तत्र खल एवं मण्डपदानामनियतत्वप्रतिपादने 'को हेऊ को हेतुः किं कारणं का व्यवस्था ? 'इति वदेज्जा' इति वदेत् कथयतु हे भगवन् ! ततो भगवानाह-'ता' तावत् अयण्णं जंबुद्दीवे दीवे' अयं खलु जम्बुद्वीपो द्वीपः - 'जाव' यावत् अत्र यावत्पदेन जम्बूद्वीपपरिमाणं पूर्ववद् वोच्यम् पूर्वप्रदर्शितप्रकारः 'परिक्खेवेण' परिक्षेपेण परिधिना 'पण्णत्ते' प्रज्ञप्तः कथितः । 'ता' तावत् 'जया णं' यदा खलु सिरिए सूर्यः 'सन्चभंतर मंडलं' सर्वाभ्यन्तरं मण्डलम् 'उवसंकमित्ता चार चरइ, उपसंक्रम्य चारं चरति 'तया ण' तदा खलु 'सा मंडलघया' तानि मण्डलपदानि मण्डलस्थानानि 'अडयालीस एगसहिभागजोयणस्स' अष्टचत्वारिंशदेकषष्टिभागा योजनस्य 'वाहल्लेणं' वाहल्येन पृथुत्वेन,बाहल्यपरिमाणस्य नियतत्वेनाग्रे सर्वत्र एतावत्प्रमाणत्वेनैव व्याख्यातव्यम् । तथा 'नवनवइजोयणसहस्साई नवनवतियोजनसहस्राणि 'छच्च चत्ताले जोयणसयाई' षट् च चत्वारिंशद् योजनशतानि चत्वारिंशदधिक षट् शतोत्तरनवनवतिसहस्र (९९६४०) योजनपरिमितानि 'आयामविक्खंभेणं' आयामविष्कम्भेण आयामेन निष्कम्भेण च, तथा 'तिण्णि जोयणसयसहस्साई त्रीणि योजनशतसहस्राणि 'पण्णरसनोयणसहस्साई' पश्चदशयोजनसहस्राणि 'एगृणणवईजोयणाई' एकोननवतियोजनानि एकोननवत्यधिकपञ्चदशसहस्रोत्तरलक्षत्रय (३१५०८९) परिमितानि 'किंचिविसेसाहियाई' किश्चिद्विशेषाधिकानि 'परिक्खेवेणं' परिक्षेपेण वर्तन्ते 'तया णं' तदा खल्ल 'उत्तमकट्ठपत्ते' उत्तमकाष्ठाप्राप्तः परमप्रकर्पसम्पन्नः तदने प्रकर्षताया अभावात् 'उक्कोसए' उत्कर्षक' सर्वोत्कृष्ट ततोऽनन्तरमुत्कर्षाभावात 'अट्ठारसमुहुत्ते दिवसे