________________
२४
चन्द्रप्रक्षप्तिसूत्रे त्रयस्त्रिंशदधिकशतोत्तरैकसहस्र (११३३) योजनपरिमितं प्रतिपादयन्ति परिधिपरिमाणं च ते वृत्तपरिमाणात् परिपूर्ण त्रिगुणमेव समिच्छन्ति न तु विशेषाधिकं तेन तेषां मते आयामविष्कम्भपरिमाणं त्रिगुणितं जायते नवनवत्यधिकत्रिशतोत्तरसहस्रत्रययोजनपरिमितं (३३९९) समागच्छति, इदं परिधिपरिमाणं 'विक्खंभवग्गदहगुणकरणे वहस्स परिरओ होइ" विष्कम्भवर्गदशगुणकरणे वृत्तस्य परिरयो भवति, इति परिधिगणितेन तन्न समीचीनम् । एवं करणे परिधिमाणं द्वयशोत्यधिकपञ्चशतोत्तरसहस्रत्रययोजनपरिमितं (३५८२) किञ्चित्समधिकमायाति. तथा हि-त्रयस्त्रिंशदधिकशतोत्तरैकसहन (११३३) योजनानि आयामविष्कम्भपरिमाणं स्थाप्यते. एतेषां वर्गो विधीयते तदा द्वादशलक्षाणि ज्यशीतिसहस्राणि एकोननवत्यधिकानि पट् शतानि च (१२८३६८९) । एषा दशभिर्गुण्यते तदा एका कोटिः अष्टाविंशतिर्लक्षाणि पत्रिंशत सहस्राणि नवत्यधिकाष्टशतानि च (१२८३६८९०) जायन्ते, एतेषां वर्गमूलानयने यथोक्तं द्वयशीत्यधिकपश्चशतोचरसहस्रत्रयं (३५८२) किश्चिद्विशेषाधिकमित्यतः परिधिपरिमाणमसमीचीनत्वान्न सिध्यति । एवं करणादपरमपि मतद्वयं परिधिपरिमाणमसद्गतमेवेति । अथ द्वितीयां प्रतिपत्तिमाह-'एगे पुण' इत्यादि, 'एगे पुण' एके केचन द्वितीयाः पुनः ‘एवं वक्ष्यमाणप्रकारेण 'आईसुकथयन्ति-'ता' तावत् 'सव्वावि णं मंडलवया' :सर्वाण्यपि खलु मण्डलपदानि प्रत्येक 'जोयणं' योजनमेकं 'बाहल्लेणं' बाहल्येन, तथा 'एग जोयणसहस्सं' एकं योजनसहस्रम् 'एगं च चउतीसं जोयणसयं' एकं च चतुस्त्रिंशद् योजनशतं चतुर्विशदधिकशत्तोरैकसहस्र(११३४) योजनपरिमितानि 'आयामविक्खंभेणं' आयामविष्कम्भेण, तथा 'तिण्णि जोयणसहस्साई' त्रीणि योजनसहस्रानि, 'चत्तारि विउत्तराई जोयणसयाई' चत्वारि व्युत्तराणि योजनशतानि दूयधिकचतुःशत (४०२) योजनपरिमितानि 'परिक्खेवेणं' परिक्षेपेण, 'एगे एवमासु' एके द्वितीया एवं पूर्वोक्तप्रकारेण आहुः-कथयन्तीति द्वितीया प्रतिपत्तिः ।२। एषाऽपि मिथ्याभावप्रदर्शनगर्भिता प्रथमप्रतिपत्तिप्रदर्शितरीत्या गणिते कृते सति परिधिपरिमाणस्यासङ्गतत्वदर्शनात् ।। अथ तृतीयां प्रतिपत्तिमाह-एगे पुण' एके केचन तृतीयाः परमतवादिनः पुनः ‘एवं' एवं वक्ष्यमाणप्रकारेण 'आइंसु आहुः कथयन्ति-'ता' तावत् 'सव्वावि मंडलवया' सर्वाण्यपि मण्डलपदानि प्रत्येकं 'जोयणं' योजनमेकं 'बाहल्लेणं' बाहल्येन. तथा 'एगं जोयणसहस्सं' एक योजनसहस्रम् ‘एगं च पणतीसं जोयणसयं' एकं च पश्चत्रिंशद् योजनशतम्-पञ्चत्रिंशदधिकशत्तोत्तरैकसहस्र (११३५) परिमितानि 'आयामविक्खंभेण' आयामविष्कम्भेण, तथा 'तिण्णि जोयणसहस्साई' त्रीणि योजनसहस्राणि 'चत्तारि पंचुत्तराई जोयणसयाई' चत्वारि पञ्चोत्तराणि योजनशतानि पञ्चोत्तरचतुःशताधिकसहस्रत्रय (३४०५) परिमितानि 'परिक्खेवेणं' परिक्षेपेण, उपसंहरति-'एगे एवमासु' एके केचन तृतीयाः एवं