SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्तिप्रकाशिकाटोका प्रा०१-७ सू०१३ चन्द्रादिमण्डलसंस्थितिनिरूपणम् ७९ छाया-तावत् कथं ते मण्डलसंस्थितिः आख्याता ? इति वदेत् , तत्र खलु इमा अष्टौ प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-तत्र पके एवमाहुः तावत्-समचतुरस्रसंस्थानसंस्थिता मण्डलसंस्थितिः आख्याता इति वदेत् , पके एवमाहुः ।। एके पुनरेवमाहुः-तावत् विषमचतुरस्रसंस्थानसंस्थिता मण्डलसंस्थितिः आख्याता इति वदेत् पके एवमाहु ।२। एके पुनरेवमाहुः-तावत् समचतुष्कोणसंस्थिता मण्डलसंस्थितिः आख्याता इति वदेत् एके पवमाहुः ॥३. पके पुनरेवमाहुः तावत् विषमचतुष्कोणसंस्थिता मण्डलसंस्थितिः आख्याता इति वदेत् पके पवमाहुः ।४। पके पुनरेवमाहुः तावत् समचक्रवालसंस्थिता मण्डलसंस्थितिः आख्याता इति वदेत् एके एचमाहुः ॥५॥ एके पुनरेवमाहुः-तावत् विषमचक्रवालसंस्थिता मण्डलसंस्थितिः आख्याता इति वदेत् , एके पवमाहुः ।६। पके पुनरेवमाहुःतावत् चकाचक्रवालसंस्थिता मण्डलसंस्थितिः आख्याता इति वदेत् , एके पवमाहुः ७) एके पुनरेवमाहुः-तावत् छत्राकारसंस्थिता मण्डलसंस्थितिः आख्याता इति वदेत् एके एवमाहुः । तत्र ये ते पवमाहुः-तावत् छत्राकारसंस्थिता मण्डलसंस्थिति आख्या. तेति वदेत् पतेन नयेन ज्ञातव्यम् , नेव खलु इतरैः ॥सु० १३॥ प्रथमस्य प्राभृतस्य सप्तमं प्राभृतप्राभृतं समाप्तम् ॥ १-७ व्याख्या - 'ता' तावत् 'कई कथं केन प्रकारेण कीदृशीत्यर्थः 'ते' तवमते 'मंडलसंठिई' मण्डलसंस्थितिः मण्डलानां चन्द्रादिमण्डलानां संस्थितिः संस्थानम् आकृतिरित्यर्थः 'आहिता' आख्याता कथिता 'इति वदेज्जा' इति वदेत्-वदतु हे भगवन् । इति गौतमेन प्रश्ने कृते भगवानाह-'तत्थ' तत्र मण्डलसंस्थितिविपये खल निश्चितम् 'इमाओ' इमाः अग्रेऽनुपदं पदर्शयिप्यमाणा 'अट्ट' अष्टौ अष्टसंख्यकाः 'पडिवत्तीओ' प्रतिपत्तयः मिथ्यात्वगर्भिताः परतीथिंकमतरूपाः 'पण्णत्ता' प्रज्ञप्ताः तैस्तीर्थान्तरीयै रिति । 'तं जहा' तद्यथा-'ता' यथा-ता एव प्रदर्शयति-'एगे एवमाहंमृ' इत्यादि, 'एगे' एके केचन प्रथमास्तीर्थान्तरीयाः ‘एवं' एवं वक्ष्यमाणप्रकारेण 'आइंसु' आहुः कथयन्ति । तदेव प्रदर्शयति-'ता' इत्यादि । 'ता' तावत् 'समचउरंससंठाणसंठिया' समचतुरस्रसंस्थानसंस्थिता समाः तुल्या चतस्रः मस्रयो भागाः यत्र तत् समचतुरखें तादृशं संस्थानम् -आकृतिः समचतुरस्रसंस्थानं तेन संस्थिता तदाकारेण स्थिता सा तथा, एतादृशी 'मंडलसंठिई' मण्डलसंस्थितिः चन्द्रादिमण्डलसंस्थानम् 'आहिता' आख्याता कथिता 'इति' इति अनेन प्रकारेण 'वदेज्जा' वदेत् कथयेत् इति वक्तव्यं सर्वैरिति भावः । उपसंहारमाह-'एगे' एके केचन प्रथमाः 'एवं' एवं पूर्वोक्तप्रकारेण 'आहंस' आह! कथयन्तीति प्रथमा प्रतिपत्तिः ।१। एवमग्रेऽपि व्याख्यानव्यम् । • तथा च द्वितीया, विषमचतुरस्रसंस्थानसंस्थिता मण्डलसंस्थितिरिति वदन्ति ।२। तृतीयाःसमचतुष्कोणसंस्थिता समत्वेन चतुष्कोणा मण्डलसंस्थितिरिति वदन्ति ।३। चतुर्थाः विषमचतुः । एकोणसंस्थिता यत्र चतुष्कोणे सत्यपि समत्वं न वर्तते एतादृशी मण्डलसंस्थितिरिति वदन्ति
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy