________________
||श्रीः ॥ जैनागमवारिफि-जैनधर्मदिवाकर-जैनाचार्य-पूज्यश्री आत्मारामजीमहाराजनां पश्चनद-(पंजाब ) स्थानामनुत्तरोपपातिकसूत्राणा
मर्थबोधिनीनामकटीकायामिदम्
सम्मतिपत्रम् आचार्यवः श्री घासीलालमुनिभिः सङ्कलिता अनुत्तरोपपातिकसूत्राणामर्थबोधिनीनाम्नी संस्कृतवृत्तिरुपयोगपूर्वकं सकलाऽपि स्वशिष्यमुखेनाऽश्रापि मया, इय हि वृत्तिर्मुनिवरस्य चैदुप्यं प्रकटयति । श्रीमद्भिर्मुनिभिः सूत्राणामर्थान् स्पष्टयितुं यः प्रयत्नो व्यधायि तदर्थमनेकशो धन्यवादानहन्ति ते। यथा चेयं वृत्तिः सरला सुबोधिनी च तथा सारवत्यपि । अस्याः स्वाध्यायेन निर्वाणपदममीप्सुभिनिर्वाणपदमनुसरद्भिर्ज्ञान-दर्शन-चारित्रेषु प्रयतमानमुनिभिः श्रावकैश्च ज्ञानदर्शन-चारित्राणि सम्यक् सम्पाप्याऽन्येऽप्यात्मानस्तत्र प्रवर्तयिष्यन्ते । ___आशासे श्रीमदाशुकविनिर्मुनिवरो गीर्वाणवाणीजुषां विदुषां मनस्तोपाय जैनागमसूत्राणां सारावबोधाय च अन्येषामपि जैनागमानामित्थं सरलाः मुस्पष्टाश्च वृत्तीविधाय तांस्तान सूत्रग्रन्थान् देवगिरा सुस्पष्टयिष्यति । ___अन्ते च " मुनिवरस्य परिश्रमं सफलयितुं सरलां सुबोधिनी चेमा सूत्रवृत्ति स्वाध्यायेन सनाथयिष्यन्त्यवश्यं सुयोग्या हंसनिभाः पाठकाः" इत्याशास्तेविक्रमान्द २००२ श्रावणकृष्णा प्रतिपदा उपाध्याय आत्मारामो जैनमुनिः
लुधियाना