SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ चर्णिभाष्यावचूरिः उ०२ सू० ३२-३६ नैत्यिकापिण्डायुपभोगनिषेधः ५३ अवचूरि:--'निमंतणं' इत्यादि 'निमंतणं' निमन्त्रणम्-आमन्त्रणम्, भोजनादिग्रहणार्थमभ्यर्थनमित्यर्थः १। 'उप्पीलणं देशी शब्दः तदर्थस्तु-उपहासः २। परिमाण भोजनस्येयत्ता ३। स्वाभाविकं स्वतः सिद्धम् , यथा-गृहस्थस्य दानम् ४। अत्राऽऽद्यास्त्रयो न कल्पन्ते, चतुर्थोऽपि नैत्यिकामपिण्डदोपरहितः स्वाभाविकपक्षः साधूनां कल्पते । अयं भावः-निमन्त्रणोप्पीलणपरिमाणानामेतत्स्वरूपम् ; तथाहि-कश्चित् श्रद्धालुः श्रावकः श्रमणसमीपमागत्य निवेदयति-भगवन् ! ममोपरि क्रियतामनुग्रहः, मद्गृहे समागत्य भक्तपानादिकं गृह्यताम् । इति प्रथमो भेदः (निमन्त्रणम्) १। 'उप्पीलणं' यथा-श्रमणो वदति-भो श्रावक ! तवोपरि करोम्यनुग्रहम् किन्तु-कथय यत् किं दास्यसि । श्रावको वदति-यद्भवतामभीष्टम् , येन वस्तुना भवतः प्रयोजनं तद्दास्यामि । तदनन्तरं साधुरुपहासमिव कुर्वन् वदति-भोः श्रावक ! अत्र प्रतिश्रुत्य गृहं नेप्यसि तत्र गतः सन् यदि नो दास्यसि तदा किम् ? एवं प्रकारेण-उप्पीलणमु हासंपकरोति । इति द्वितीयो भेदः २॥ अथ परिमाणस्वरूपमाह-अवश्यमेव दास्यामि नाऽत्र सन्देहः । एवं कथिते गृहस्थे साधुः परिमाणं वदति-भोः श्रावक ! कियत्परिमाणं दास्यसि ? कियत्कालपर्यन्तं दास्यसि ? किं दास्यसि ?, यदि स्वल्पं दास्यसि अदत्तवत् स्यात् । ततो दाता वदति-यावता भक्तेन-पानेन वा भवतः प्रयोजनम् , यावन्तं वा कालं भवतः प्रयोजनं तावन्तं कालं भवते परिपूर्णमोदनादिकं दास्यामि , किं बहुना -यद्वस्तु भवते रोचते, यावत्परिमाणं वा रोचते, यावत्कालं वा तावत्कालपर्यन्तमपरिहीनमपरिश्रान्तोऽहं दास्यामि । इति तृतीयो भेदः ३। मत्र-निमन्त्रणोप्पीलणपश्मिाणेषु प्रायश्चित्तं भवति । स्वाभाविकं यद् भक्तपानादिकमात्मार्थ गृहस्येन निष्पादितं नैत्यिकानपिण्डदोपवर्जितं च तदेव साधुभिाह्यम् नत्वन्यत् । इति चतुर्थो भेदः ।। __अत्राह कश्चित्-चतुष्प्रकारकेऽपि अग्रपिण्डे न किमपि दोपं पश्यामि ? आचार्यः प्राह-यत्स्वामाथे स्वभावत एव निष्पादितं तत्-नितिकम् अनिमन्त्रितमनुप्पीलणमपरिमाणमपि यदि निमन्त्रणादिमिक्षाकणेनाऽपि स्पृष्टं तत्साधूनां न कल्पते । एतत् त्रयातिरिक्तं स्वाभाविकमपि भक्तपानादिकं यदि नियताग्रपिण्डदोपवर्जितं भवेत् तत् साधूनां कल्पते इति । स्वात्मार्थ निष्यादितेऽपि नियताप्रपिण्डदोपनिमन्त्रणादिदोषदूषिते इमे दोपा भवन्तिआत्मार्थ निष्यन्नेऽपि-उद्गमादिदोपा भवन्ति, साधुनिमित्तमयं पिण्डो नियमितः, इत्यवश्यं दातध्यम्, इति कृत्वा कुण्डादिपु स्थापयति तस्मात्-निमन्त्रणादिपिण्डो वर्जनीयः ॥ सू० ३२॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy