SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे सूत्रम्-जे भिक्खू लवगवेसियं पडिग्गहं धरेइ धरतं वा साइज्जइ ॥ छाया -यो भिक्षुर्लवगवेपितं प्रतिग्रहं धरति धरन्तं वा स्वदते ॥ ० ३१ ॥ चूर्णी - 'जे भिक्खु, इत्यादि । 'जे भिक्खू, यो भिक्षुरित्यादि पूर्ववत् । नवरम् - 'लवगवेसियं, लवगवेपितम् तत्र - लवो नाम - यो दानफलं दर्शयित्वा वस्त्रपात्रादिकमुत्पादयति, तादृशः पुरुषो लव इति कथितो भवति, तेनान्विप्यानीतम् । यो हि भिक्षुर्वस्त्रपात्रादिस्वामिनं वस्त्रपात्रादिदानस्य फलं श्रावयित्वा तस्माद्वपात्रादिकमादत्ते दापयति चान्यस्मै । तथा-यथक्तव्यापारेणाऽऽददानमन्यमनुमोदते स प्रायश्चित्तभागिति भावः । सू० ३१ ॥ ५६ भाष्यम् — दाणफलं तु दंसीय, आदेइ दावए खलु । वत्थपायाइगं नृणं, तारिस लव बुच्चइ ॥ छाया - दानफलं तु दर्शयित्वा आदत्ते दापयेत्खलु । वस्त्रपात्रादिकं नूनं तादृशो लव उच्यते ॥ अवचूरि : - - ' दाणफलं' इत्यादि । यो भिक्षुः दानस्य फलं दर्शयित्वा वस्त्रपात्रादिकमादत्ते - आनयति लोकेभ्यः, दापयति चाऽन्यस्मै स लव उच्यते - कथ्यते । तत्र दानं द्विविधम्लौकिकं लोकोत्तरं च । लोकमुद्दिश्य यद्दीयते तल्लौकिकम् । कर्मनिर्जरार्थं दातव्यमितिबुद्धया पात्राय महात्रतधारिणे यद्दानं तल्लोकोत्तरम् ॥ सू० ३१ ॥ सूत्रम् -- जे भिक्खू णितियं अग्गपिंडं भुजइ भुजंतं वा साइज्जइ ॥ छाया -यो भिक्षुर्नत्यिकं - अग्रपिण्डं भुङ्क्ते भुञ्जन्तं वा स्वदते ॥ सू० ३२ ॥ चूर्णी – 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'णितियं' नैत्यिकं नियतं वा, तत्र नैत्यिकं प्रतिदिनम्, नियतं नियतकालप्रतिबद्वं यथा कस्मिंश्चिद् गृहे कचित् दिनद्वयमन्तरा - कृत्य दिनत्रयादिकं वा व्यवधानीकृत्य नियमतो गमनं नियतशब्दार्थः । 'अग्गपिंडं' अग्रपिण्डम् अग्रः प्रधानः पिण्डः - अग्रपिण्डस्तम्, अथवा भोजनात्पूर्वं यो निष्कास्यते सः तम् अग्रपिण्डम् । यदा तदा साधुम्योऽन्नपानवितरणकाले अग्रपिण्डं भुङ्क्ते भुञ्जन्तं वा स्वदतेऽनुमोदते स प्रायचित्तभाग् भवतीति ॥ सू० ३२ ॥ भाष्यम् - निमंतणं उप्पीलणं, परिमाणं सभावियं । 1 आइल्ला तिष्णि नो कप्पे, कप्पेज्जा य चउत्थगं ॥ छाया -- निमन्त्रणमुप्पीलणं परिमाणं स्वाभाविकम् । आद्यास्त्रयो न कल्पन्ते कल्पते च चतुर्थकम् ॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy