________________
निशीथसूत्रे २४
अवचूरिः-'अबलक्खण.' इत्यादि । अपलक्षणं यद्वन्धनं तस्मात् प्रमादो भवति, तस्मात् प्रमादात् असंयमः, तेन च असयमेन आज्ञाभङ्गः जिनाज्ञाविराधना, तस्माच्च माज्ञाभङ्गात् साधुः संसारे पतति तस्य पुनः पुनः संसारपातो भवति । तस्मादविधिवन्धनस्य सार्धमासात्परतो धर्ता-धारयिता, धारयतोऽनुमोदयिता च प्रायश्चित्तभाग् भवतीति विमर्शः ॥ सू०४८ ॥
एकबन्धनबद्धपात्रधारणे भिक्षुः के कं दोपं प्राप्नोतीत्याह भाष्यकार:भाष्यम्-आणाभंगाइयं दोसं, मिच्छत्तं च विराहणं ।
पावइ जम्हा य तम्हा, भिक्खू णेव धरेज्ज तं ॥ छाया-आक्षामगादिकं दोपं, मिथ्यात्वं च विराधनम् ।
प्राप्नोति यस्माच्च तस्माद् , भिक्षुनैव धरेत् तम् ॥ अवचरि:--'आणाभंगाइयं' इत्यादि । यस्मात्कारणात् एक-द्विक-त्रिकातिरेकबन्धनविशिष्टपात्रं धारयतस्तीर्थकाराणामाज्ञाभङ्गादिका दोपा भवन्ति, तथा अनवस्था, एकेन यदि धारितं तदाऽन्योऽपि तद्धारयिष्यति, तदन्योऽपि धारयिष्यति, एवं तदन्योऽपि, इत्थं क्रमेणाऽनवस्थादोपः समापतति । तेन मिथ्यात्वमपि प्राप्नोति, तीर्थकराणामाज्ञाभङ्गे मिथ्यास्त्र प्राप्तः । तथा विराधनम् आत्मविराधनं संयमविराधनं च प्राप्नोति । तस्मात्कारणात साधुरेकबन्धनाविधिवन्धनातिरेकबन्धनविशिष्टं पात्र न धारयेदिति सिद्धान्तः ॥ सू० ४८॥
अथ भाप्यकारोऽलक्षणपात्राणि प्रदर्शयति-'हुंडं' इत्यादि । भाष्यम्-हुंडं १ सवलं २ वायाइद्धं ३ दुपुयं ४ च खीलसंठाणं ५।
पउमुप्पल ६च सवणं ७ अलक्षणं दह ८ दुचणं ९॥ छाया-हुंडं १ शवलं २ वाताचिद्ध ३ दुष्पुतं ४ च कीलसंस्थानम् ५।
पद्मोत्पलं च सवर्ण ७, अलक्षणं दग्ध ८ दुर्वर्णम् ९ ।
अवरिः - हुंड' यत् पात्रं समचतुरखं न भवति तत् हुण्डम् अलक्षणम् १, शवलं तत् यस्य कृष्णादिरूपाणि, विचित्ररूपोपपन्नम् इत्यर्थः २ वाताविद्वं नाम-वातेन आविद्ध क्षिप्तम् उपचारात् स्फुटितमित्यर्थः ३, दुप्पुन नाम-दुष्टाधोभागं यत् स्थापितमूर्ध्वमेव तिष्ठतिचालितं सत् पुनः प्रत्यावर्त्तते तत् तादृशं दुष्पुतम् ४ इति । कोलसंस्थानम्-यत् स्थापयत् सन्न तिष्ठति तत्कीलसंस्थानम् ५, पद्मोत्पलम्-यस्य पात्रस्याऽधोनाभिः पद्माकृतिः, उत्पलाकृतिः नोलामा वा तत्पद्मोत्यलम् ६, सवर्णम् कण्टकादिक्षतक्षतं यत्पात्रं तत् ७, तथा दग्धम्अग्निना प्रचलितम् ८, दुवर्णम्-पञ्चवर्णोपेतमनिष्टवर्ण वा ९ । अथवा-प्रवालाड्कुरसदृशं