SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० १ सू० ४८ पात्रस्यातिरेकबन्धनकालमर्यादा २३ दिबन्धेन बध्नाति–बन्धनं करोति कारयति 'बंधतं वा साइज्जई' बध्नन्तं-बन्धनं कुर्वाणं स्वदतेऽनुमोदते स प्रायश्चित्तभाग्भवति ॥ सू० ४७ ॥ अत्राह भाष्यकार:भाष्यम्-बंधत्तिगाइरित्तेण, पायं बंधइ जो जई । विहिणाऽविहिणा वावि, से पावइ य दूसणं॥ छाया-बन्धत्रिकातिरिक्तेन, पात्रं बध्नाति यो यतिः । विधिनाऽविधिना वाऽपि, स प्राप्नोति च दूषणम् ॥ अवचूरिः-'बंधत्तिगा' इत्यादि । यः कैवल्यप्रापकज्ञानदर्शनचारित्रार्थ यतमानो यतिः बन्धत्रयातिरिक्तेन बन्धनत्रयादधिकेन चतुर्थबन्धनादिना पात्रमलाबूप्रभृतिकम् विधिना मुद्रिकादिसंस्थानेन, अविधिना स्वस्तिकादिसंस्थानेन बन्धनेन बध्नाति बन्धनं करोति कारयति, स दूषणमाज्ञाभङ्गादिदोषजातं प्राप्नोति तस्मात् कथमपि विधिनाऽविधिना वा चतुर्थेन बन्धनेन यतिः पात्रस्य बन्धन न कुर्यादिति ।। सू० ४७॥ सूत्रम्-जे भिक्खू अइरेगबंधणं पायं दिवड्डाओ मासाओ परेण धरइ धरतं वा साइज्जइ ॥ सू० ४८॥ छाया-यो भिक्षुरतिरेकबन्धनं पात्र द्वयर्धात् मासात्परं धरति, धरन्तं वा स्वदते ॥ सू०४८॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अइरेगवंधणं पायं' अतिरेक त्रिबन्धनादधिकं बन्धनम् , तेन बद्धं पात्रम् 'दिवड्ढाओ मासाओ' द्वयर्धात् मासात् एकं मासं परिपूर्ण द्वितीयमासस्या? भागः पंचदशदिनानि, तस्मात् द्वयर्धमासात् 'परेण' परेण परतः यदि द्वयर्धमासादधिककालपर्यन्तं 'घरेइ' धरति धारयति । 'धरंतं वा साइज्जई' धरन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्ती भवति ॥ सू० ४८ ॥ ___ अत्राह भाष्यकार:भाष्यम्-अवलक्खणवंधणओ, होइ पमाभो असंजमो तत्तो । तेण य आणाभंगो, पडई तत्तो य संसारे ॥ छाया--अपलक्षणबन्धनतों भवति प्रमादः असंयमस्तस्मात् । तेन च आज्ञाभङ्गः, पतति तस्माच्च संसारे ॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy