________________
२०
निशियसूत्रे संस्थापयति, तत्र-संस्थापन-टण्डस्य मुखादीनां संपादनम् 'जमावेइ वा' यमयति वा संयमयति दण्डादिकं समीकारयति । 'अलमप्पणो करणयाए' अलमात्मनः करणतया पर्याप्तमात्मना स्वयं करणायालम् न स्वस्य कत्तुं सामर्थ्यमित्यर्थः । 'मुहुममवि नो कप्पई' सूक्ष्म-स्वल्पमप्यात्मनः कार्यमन्यद्वारा कारयितुं न कथमपि कल्पते । 'जाणमाणे सरमाणे अण्णमण्णस्स वियरई' स्वात्मानं नानानः स्मरन् वा स्वसामर्थ्य अन्याऽन्यस्य अन्यस्मै अन्यस्मै इत्यर्थः वितरति-ददाति । 'वियरंतं वा साइज्जइ' वितरन्त वा-ददतं वाऽन्यं स्वदतेऽनुमोदते दण्डादीनां घर्पण--संस्थापनसंयमनादिकं कत्तु परतीथिकेभ्यो ददाति ददतं वाऽन्यमनुमोदते स प्रायश्चित्तभाग्भवति । केवलं बाल-ग्लान-रोगि-वृद्धानां संचलनार्थ यष्ट्यादिर्गृहीतो भवति न तु सशक्तानां सर्वसाधूनामिति विवेकः ।। सू० ४१ ॥
सूत्रम्-जे भिक्ख पायस्म एगं तुडियं तुडेइ तुडंतं वा साइज्जइ ।। सू० ४२॥
छाया-यो भिक्षु पात्रस्यै त्रुटितं स्थगयति-स्थरायन्त वा स्वदते ॥सू०४२॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू यो भिक्षुः श्रमणः 'पायस्स' पात्रस्यतुम्बीपात्रस्य, दारुपात्रस्य, मृत्तिकापात्रस्य वा। 'एगं तुडियं' एकं त्रुटितम् थिग्गलं छिद्रमित्यर्थः उपलक्षणात् अखण्डपात्रस्योपरि शोभाद्यर्थ पात्रस्य शोभा वर्द्धतामिति बुद्धया पात्रस्योपरि दीयमानं चिविशेपम् । 'तुढेई' स्थगयति आवृणुते त्रुटितं संयोजयतीत्यर्थः । 'तुडतं वा साइज्जई' स्थगयन्तं वा स्वदते । यश्च भिक्षुस्तुम्विकादित्रिविधपात्रेपु छिदमेकं निरुणद्धि, यद्वा-पात्रस्योपरि शोभातिशयसंपादनार्थ यत्र तत्र वा स्वस्तिकादिकं निर्माति-निर्मापयति वा, निर्मापयन्तं वाऽनुमोदते स प्रायश्चित्तभाग्भवति ॥ सू० ४२ ॥
सूत्रम्-जे भिक्ख पायस्स परं तिण्हं तुडियाणं तुडेइ तुडतं वा साइज्जइ ।। सू० ४३॥
छाया-यो भिक्षुः पात्रस्य परं त्रयाणां त्रुटितानां स्थगयति स्थगयन्तं वा स्वदते ॥ सू०४३॥
चूर्णी - 'जे भिक्खू इत्यादि । 'जे भिक्खू यो भिक्षुः श्रमणः 'पायस्स' पात्रस्य तुम्बिकादेः। 'परं तिपदं तुडियाणं' परं त्रयाणां त्रुटितानाम् त्रिथिग्गलात् परं चतुर्थादिकम् 'तुढेई' स्थगयतिआवृतं करोति-कारयति वा 'तुडंतं वा साइज्जइ' -स्थगयन्तं वा स्वदतेऽनुमोदते, त्रिथिग्गला