SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ चर्णिभाष्यावचूरिः उ० १ सू० ४१-४३ दण्डकादिपरिघट्टन-पात्रसन्धाननिषेधः १९ चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू यो भिक्षुः श्रमणः 'लाउपायं वा' अलाबूपात्र वा-तूंबीपात्रं वा, 'दारुपायं वा' दारुपात्रं वा, तत्र-दारु-काष्ठं तत्संबन्धि पात्रं वा, 'मट्टियापायं वा' मृत्तिकापात्रं वा, एतानि त्रीणि अलाबूप्रभृतिपात्राणि 'अण्णउत्थिएण वा' अन्ययूथिकेन अन्यतीर्थिकेन वा, 'गारथिएण वा' गृहस्थेन वा 'परिघट्टावेइ वा' परिघट्टयति-निर्मापयति वा 'संठवेई' संस्थापयति वा-पात्रमुखादीनां निर्माणं कारयति 'जमावेइ वा' यमयति वा-संयमयति वा पात्रैकदेशोच्चनीचप्रदेशं समीकारयति । अलं=पर्याप्तम् 'अप्पणो करणयाए' आत्मना करणतया स्वयं कत्तु न शक्यते । 'मुहममवि' सूक्ष्ममल्पमपिः 'नो कप्पई' नो कल्पते । एवं स्वशक्तिं 'जाणमाणे' जानानः 'सरमाणे' स्वसामर्थ्य स्मरन् सन् वा 'अण्णमण्णस्स' अन्यान्यस्मै अन्यस्मै अन्यस्मै इत्यर्थः, तत्र-अन्यतीर्थिकाय गृहस्थाय वा 'वियरइ' वितरति समीकरणाद्यर्थाय पुनरग्रहणाय वा ददाति । 'वियरंतं वा साइज्जई' वितरन्तं ददतमन्यं वा स्वदतेऽनुमोदते इति । यदि कश्चित् श्रमणः तुम्बादिपात्रं स्फुटितं गृहस्थादिद्वारा संधापयति नवीनं वा निर्मापयति किंचिदपि विषमं समौकारयति सूक्ष्ममपि कार्य करोति-कारयति-कुर्वन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग्भवति । एतेषां करणेऽन्यद्वारा संपादने वा दाने वा षड्विधजोवनिकायानामुपमर्दसंभवेन साधुभिस्तत्त्याज्यम् ॥ सू० ४०॥ सूत्रम्-जे भिक्खू दंडयं वा लट्ठियं वा अवलेहणियं वा वेणुसूइयं वा अन्नउत्थिएण वा गारथिएण वा परिघट्टावेइ संठवेइ जमावेइ वा अलमप्पणो करणयाए सुहुममवि नो कप्पइ जाणमाणे सरमाणे अण्णमण्णस्स वियरइ वियरतं वा साइज्जइ ।। सू० ४१॥ छाया-यो भिक्षुः दण्डकं वा यष्टिकां वा अवलेहनिकां वा-वेणुसूचिका वा अन्ययूथिकेन वा.गृहस्थेन वा परिघट्टयति संस्थापयति यमयति वा अलमात्मनः करणतया सूक्ष्ममपि नो कल्पते जानानः स्मरन् अन्याऽन्यस्मै वितरति वितरन्त वा स्वदते । सू० ४१॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः 'दंडयं वा' दण्डकं वा, तत्र-दण्डो गमनसहायको लोकप्रसिद्धः, 'लट्ठियं वा' यष्टिकां वा, तत्र-यष्टिर्वशादिनिर्मितो लघुदण्डविशेषः, तां वा। 'अवलेहणियं वा' अवलेहनिकां वा वर्षासमये चरणसंलग्नकर्दमप्रोञ्छनशलाकाविशेषः। 'वेणुसइयं वा वेणुसूचिकां वा, तत्र-वेणुवंशस्तन्मयीं सूची वंशशलाकामित्यर्थः। एतत्पूर्वोक्तं सर्व वस्तु 'अन्नउत्थिएण वा गारथिएण वा' अन्ययूथिकेनाऽन्यतीर्थिकेन वा गृहस्थेन वा 'परिघट्टावेइ' परिघट्टयति परिघट्टनं निर्मापणम् ततश्चाऽन्यद्वारा दण्डादि निर्मापयतीत्यर्थः । 'संठवेई'
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy