________________
चूर्णिभाप्यावरि: उ० २० सू० २२-२६ परिहारस्थानप्रस्थापितस्यारोपणाविधिः ४४७ तत्र रात्रिग्रहणमहोरात्रस्योपलक्षणम् रात्रावेव अहोरात्रस्य परिसमाप्तेः तदयं निष्कर्षार्थः प्रचलितपाण्मासिकप्रायश्चित्ते एव पुनरपि द्वैमासिकपरिहारस्थानप्रतिसेवकाय विंशत्यहोरात्रप्रमाणकं पुनरपि प्रायश्चित्तं दद्यात्-पण्मासस्य द्वौ द्वौ भागौ परित्याज्यौ एकैको भागो ग्रहीतव्यः, तावता मासद्वययुक्तविंशत्यहोरात्रप्रमाणकमेव प्रायश्चित्तमापन्नं भवति । षण्मासभागत्रयं विशदयतिपण्मासस्य द्विद्विभागरूपेषु त्रिपु भागेपु 'आइमज्झावसाणे' आदिमध्यावसाने पण्मासस्य आदौ मध्ये अवसाने च द्विभागरूपे 'सअर्ड्स' सार्थम्-तत्र अर्थः प्रयोजनम् येन प्रयोजनेन प्रयुक्तः सन् तदाचरितम् तेन प्रयोजनेन सहितम् 'सहेर्ड' सहेतुम् , तत्र हेतुः सामान्यकारणम् , येन हेतुना प्रयुक्तः सन तदाचरितं तत्सहितम् 'सकारणं' सकारणम्, विशेषार्थहेतुकारणैः प्रयुक्तः सन् तदाचरितं मासद्वयात्मकं परिहारस्थानम् तत्सर्वं सपूर्ण पाण्मासिकसम्बन्धिद्विमासम् विंशत्यहोरात्राणां त्रिवारकरणात् , तच्च 'अहीणमइरित्तं' महीनमतिरिक्तम् न हीन न्यूनं नातिरिक्तं नाधिकम् एकढिदिनादिनापि न न्य्नं नाप्यधिक संपूर्णमेव । अयं भावः-यदि प्रचलितषाण्मासिकप्रायश्चित्तकरणावसरे केनापि कारणादिना पुनरपि मासद्वयात्मकपरिहारस्थानस्य प्रतिसेवनं करोति कृत्वा चाकपटमालोचयेत् तदा विंशत्यहोरात्रंद्विमामादपरम् प्रायश्चित्तं दधात् विंशत्यहोरात्राधिकं संपूर्णमासद्वयं प्रायश्चित्तं दद्यादिति, अतएव 'तेण परं सवीसइराइया दो मासा' तेन परं तस्मायण्मासादुपरीत्यर्थः सविंशतिरात्रिको द्वौ मासौ प्रायश्चित्तत्वेन भवतः तत्र न किञ्चिदपि हातव्यमिति भावः ।। सू० २१ ॥
सूत्रम्-पंचमासियं परिहारहाणं पट्टविए अणगारे अंतरा दोमामासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअठं सहेउं सकारणं अहीणमतिरित्तं तेण परं सवीसराइया दा मासा ॥ सू० २२॥
चाउम्मासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरित्तं तेण परं सवीसइराइया दो मासा ॥ सू० २३ ॥
तेमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा दोमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरो