________________
निशीथसूत्रे
'ठवणा' इत्यादि, स्थपनापरिहारनानात्वं-स्थापनापरिहारविषये भेदो ज्ञातव्यः, अयं भावःअधस्तनपूर्वसूत्रेपु आदितः षोडशसूत्रपर्यन्तसूत्रेषु परिहारतपो न कथितम् , इह तु सप्तदशसूत्रादनन्तरसूत्रेषु परिहारतपसः प्रतिपादनं कृतम् , इत्येतावानेव विशेष इति । सू० १८-२० ॥
इदानी मासादौ प्रस्थापिते अन्तरा यदन्यदिनमासादिपापस्थानं प्रतिसेवते तत्र यस्मिन् पापस्थाने दिवसग्रहणप्रमाणं प्रस्थापितं स्थापनारूपं भव्यते तदेव दर्शयति-'छम्मासियं इत्यादि ।
सूत्रम-छम्मासियं परिहारहाणं पट्टविए अणगारे अंतरा दोमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअटुं सहे सकारणं अहीणमइरितं तेण परं सवीसइराइया दो मासा ।। सू० २१॥
छाया पाण्मासिकं परिहारस्थान प्रस्थापितोऽनगारः अन्तरा द्वमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा विंशतिरात्रिकी आरोपणा आदिमध्यावसाने सार्थ सहेतुं सकारणमहीनातिरिक्तं तेन परं सविंशतिरात्रौ द्वौ मासौ ॥ सू० २१॥
चूर्णी- 'छम्मासियं' इत्यादि । 'छम्मासियं' पाण्मासिकम् तत्र पडिति संख्याविशेषलक्षणं मासिकम्, तत्र मानानि समयावलिकादीनि असतीति मासः, मासो मासान्तक. कालः परिमाणमस्येति मासिकम्, षभिर्मास निष्पन्नं यत् तत् पाण्मासिकम् 'परिहारहाणं' परिहारस्थानम्-परिहारस्य स्थान परिहारस्थानम्-सावद्यकर्मणामनुष्ठानलक्षणम् तत्प्रति 'पट्टविए' प्रस्थापितः अशुभकर्मणां क्षयाथ स्थापितः प्रायश्चित्तं वहमान इत्यर्थः 'अणगारे' अनगार:-श्रमणः श्रमणी वा 'अंतरा दोमासियं परिहारहाणं पडिसेवित्ता' अन्तरा द्वैमासिक परिहारस्थानं प्रतिसेव्य तत्र अन्तरा मध्ये समारब्धप्रायश्चित्तस्य मध्ये इत्यर्थः द्वैमासिकम्-मासद्वयेन संपादनयोग्यं परिहारस्थानं पापस्थानम् 'पडिसेवित्ता' प्रतिसेव्य-प्रायश्चित्तकरणसमयेऽपि द्वैमासिकप्रायश्चित्तस्थानस्य प्रतिसेवनं कृत्वा 'आलोएज्जा' आलोचयेत् कृतपापकर्मण आलोचना गुरवे दर्शयेत् । तत्र मायारहितभावेन पालोचनां कुर्वतः 'अहावरा वीसइराइया आरोवणा' अथापरा विंशतिरात्रिको आरोपणा, तत्र अथेत्ययमानन्तर्यार्थको निपातः, अपरा-मासद्वयादन्या, यदि अयं पाण्मासिकं तपो वहन् मध्ये द्वैमासिकं परिहारस्थानं प्रतिसेवते प्रतिसेव्य मायारहितमालोचयेत् तदा गुरुः तस्मै प्रतिसेवितमासद्वयोपरिविंशतिरात्रिकी आरोपणा कर्तव्या विंशतिरात्रिसम्पादनीयप्रायश्चित्तं वर्धयेदिति भावः । पण्णां मासानां त्रिभागं कृत्वा तत्र भागद्वयं परित्यजेत् , एक भाग मासद्वयप्रमाणं प्रायश्चित्तं पुनरपरं दद्यात् तदेवं मासदयसम्पाचं प्रायश्चित्तं समीलयित्वा विंशतिरात्रिकं प्रायश्चित्तं दद्यात् ।