________________
wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww
चूर्णिभाष्यावचूरिः उ० २० सू०१७ मासिकादिपरिहारस्थानप्रतिसेवनप्रायश्चित्तविधिः ४४१ नयोग्यम्-अनुपारिहारिकं पारिहारिकानुकूलवत्तिनं कञ्चित्साधुम् 'ठवइत्ता' स्थापयित्वा-नियतं कृत्वा अनुपारिहारिकेण वैयावृत्त्यकारेण च 'करणिज्ज वेयावडियं करणीयं वैयावृत्त्यम्, अस्य परिहारतपसि वर्तमानस्य यथायोग्यमनुशिष्टयपालम्भोपग्रहलक्षणं वैयावृत्यं करणीयम् । 'ठाविएवि पडिसेबित्ता' स्थापितेऽपि-अनुशिष्टयुपालम्भादिभिः क्रियमाणेऽपि वैयावृत्ये प्रतिसेविता कदाचित् किमपि अपराधस्थानं प्रतिसेवको भवेत् पापस्थान सेवेत कथयेच्च हे भगवन् ! अहममुकं प्रायश्चित्तस्थानमापन्नः, ततस्तस्य 'सेवि' तदपि तत्संबन्ध्यपि प्रायश्चित्तम् 'कसिणे' कृत्स्नम् सर्व पूर्वसेवितं सम्प्रति सेवितं चेति द्वयमपि 'तत्थेव' तत्रैव परिहारतपस्येव 'आरुहियन्वे सिया' आरोपयितव्यं स्यात् सर्व संमेलनीयमित्यर्थः, मत्र पापस्थानस्य पूर्वपश्चात्सेवनाविषयां चतुभङ्गी दर्शयितुमाह-'पुब्धि' इत्यादि, 'पुचि पडिसेवियं पुचि आलोइयं पूर्व प्रतिसेवितंपूर्वमालोचितम् १, अत्र पूर्वमित्यत्र पदैकदेशे पदसमुदायोपचारात् पूर्वानुपूर्ध्या इति ज्ञातव्यम् , ततश्चायमर्थः-गुरुलघुपर्यालोचनया पूर्वानुपा लघुपञ्चकादिक्रमेण यत् प्रतिसेवितम् तत् पूर्व पूर्वानुपर्ध्या प्रतिसेवनानुक्रमेण आलोचितमिति प्रथमो भङ्गः १ । द्वितीयभङ्गमाह-'पुब्बिं पडिसेवियं पच्छा आलोइयं पूर्व प्रतिसेवितं पश्चादालोचितम्-पूर्व गुरुलघुपालोचनया पूर्वानुपूर्त्या मास. लघुकादि प्रतिसेवितम् तदनन्तरं च तथाविधाल्पप्रयोजनोत्पत्तो प्रमादादिना गुरुलघुपर्यालोचनयैव लघुपञ्चकादि प्रतिसेवितम् आलोचनासमये च पश्चात्-पश्चानुपूर्व्या आलोचितम्-यथापूर्व लघुपञ्चकाद्यालोचितम् पश्चात् लधुमासिकादिकमालोचितमिति द्वितीयो भङ्गः २ । अथ तृतीयभग दर्शयितुमाह-'पच्छा पडिसेवियं इत्यादि 'पच्छा पडिसेवियं पुन्धि आलोइयं पश्चाप्रतिसेवितं पूर्वमालोचितम् , तत्र पश्चानुपूर्व्या प्रतिसेवितं गुरुलघुपर्यालोचनामन्तरेण पूर्व गुरुमासादिकं प्रतिसेवितम् पश्चात् लघुपञ्चकादीति आलोचनासमये आनुपूर्व्या नालोचितम् पूर्व लघुपञ्चकाद्यालोचितम् पश्चात् तदनन्तरं गुरुमासादिकमालोचितमिति तृतीयो भङ्गः ३ । अथ चतुर्थभङ्गमाह-'पच्छा पडिसेवियं' इत्यादि । 'पच्छा पडिसेवियं पच्छा आलोइयं पश्चात्प्रतिसेवितं पश्चादालोचितम् , तत्र पश्चानुपूर्ध्या प्रतिसेवितं गुरुलघुपर्यालोचनादिविरहितं यथाकथंचन प्रतिसेवितमिति पश्चात् पश्चानुपूर्व्या आलोचितं प्रतिसेवनानुक्रमेणैव आलोचितम् , अथवा स्मृत्वा स्मृत्वा यथाकथंचनापि आलोचितमिति चतुर्थो भङ्गः ४ । अत्र प्रथमचतुर्थभनौ अप्रतिकुञ्चनायाम् , द्वितीयतृतीयभगौ तु प्रतिकुश्चनायामिति अप्रतिकुश्चित -प्रतिकुञ्चिताभ्यामियं चतुझी कृतेति । तामेव अप्रतिकुश्चिते अप्रतिकुञ्चितम् , इत्येतद्विषयां चतुर्भङ्गी दर्शयितुमाह-'अपलिउंचिए अपलिउंचियं' इत्यादि, 'अपलिउंचिए अपलिउंचियं अप्रतिकुञ्चिते अप्रतिकुञ्चितम, यदा खल अतिचारान् प्राप्तवान् आलोचनाकाले मालोचनाभिमुखो भवेत्तदा स एवं संकल्पयति यथा ये केचन मयि अतिचाराः जातास्ते सर्वेऽपि अतिचारा मया आलोचनीयाः न कोऽपि गोप