________________
चूर्णि भाष्यावचूरिः उ० १ सू० ३६-४० अविधिसूची प्रत्यर्पण - पात्र परिघट्टनादिनिषेधः १७
छाया - यो भिक्षुः प्रातिहारिकं कर्णशोधनकं याचित्वा, कर्णमलं निर्हरिष्यामीति दन्तमलं वा नखमलं वा निर्हरति, निर्हरन्तं वा स्वदते ॥ सू० ३५ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः 'पाडिहारियं' प्रातिहारिकम् ‘कण्णसोहणगं' कर्णशोधनकम् ' जाइत्ता' याचित्वा 'कण्णमलं णीहरिस्सामित्ति' कर्णमलं निर्हरिष्यामीति कथयित्वाऽऽनीतेन तेन दन्तमलं वा स्वेच्छया नखमलं वा 'णीहरेइ' निर्हरति, निहारयति, 'णीहरंतं वा साइज्जइ' निर्हरन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवतीति ॥ सू० ३५ ॥
अत्राह भाष्यकारः-
भाष्यम् -सीविस्सं वत्थमेणं, वत्थं पायं च सव्वइ । सिविसामि च पायं वा, वत्थगं खलु सिन्वइ ॥
गिही सयं वा दहूणं, सुणित्ता विमणो हवे । खिसणं वा परस्सग्गे, कुज्जा अणायरं तहा || छाया - सीविष्यामि वस्त्रमेतेन वस्त्रं पात्रं च सीव्यति । सिविष्यामि च पात्रं वा वस्त्रकं खलु सीव्यति ॥ गृही स्वयं वा दृष्ट्वा श्रुत्वा विमना भवेत् । निन्दनं वा परस्याग्रे कुर्यादनादरं तथा ॥
अवचूरि : - 'सीविस्सं' इत्यादि । अहं भवत्प्रदत्तेन - एतेन सूच्यादिना वस्त्रं सीविष्यामि, इत्युक्त्वाऽऽनीतेन साधनेन सूचीसाधनेन वस्त्रं ततोऽन्यत् पात्रं च सीव्यति । एवमेव - पात्र वासीविष्यामीति कथयित्वाssनीतेन तेन खलु वस्त्रकं सीव्यति । गृही एवं सूचीद्वारा पात्रादिकं सीव्यन्तमेनं साधु कदाचित्स्वयं दृष्ट्वा परमुखाद्वा श्रुत्वा 'विमणो' विमनाः मनोवकृतिमान् भवेत् वा–अथवा परस्य-साधोर्गृहस्थस्य वा अग्रे - समक्षं तस्य साधोर्निन्दनं तथा - अनादरं यदि कुर्यात् तदा मृषाभाषणेन द्वितीय महाव्रतस्य भङ्गकरणात् संयमात्परिभ्रष्टः सन् शासनलघुतां कारयेत्साधुः, अतः साधुभिरेवं न कर्त्तव्यम् ॥ सू० ३५ ॥
सूत्रम् — जे भिक्खू अविहीए सूइं पञ्चपिणs पच्चपितं वा साइज्जइ ॥ सू० ३६॥
छाया - यो भिक्षुरविधिना सूचों प्रत्यर्पयति, प्रत्यर्पयन्तं वा स्वदते ॥ सू० ३६ ॥
३