SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे छाया--यो भिक्षुः प्रातिहारिकी सूची याचित्वा वस्त्रं सीविष्यामि इति पात्रं सीव्यति सीव्यन्तं वा स्वदते ॥ ३२॥ चूर्णी-'जे भिक्खू' इत्यादि 'जे भिक्खू यः कश्चिद्भिक्षुः श्रमणः 'पाडिहारियं' प्रातिहारिकीम्, 'सई' सूची-कार्य कृत्वा पुनः परावर्तयिष्यामीति कथयित्वा नयति-तादृशसूचीग्रहणं प्रातिहारिकसूचीग्रहणम् । तादृशी सूची 'जाइत्ता' याचित्वा 'वत्थं सीविस्सामित्ति' वस्त्रं सीविष्यामीति अनया नीयमानया सुच्याऽहं वस्त्रस्य संधानं करिष्यामीति कथयित्वा आनीतया तया 'पायं सिब्बइ' पात्रं सीव्यति, यदि कथिताद्वस्तुनोऽन्यद्वस्तु सीव्यति, 'सिव्वंतं वा साइज्जई' सीव्यन्तं वा सदधन्तं वा स्वदतेऽनुमोदते स भाषासमित्यास्खलितः प्रायश्चित्तभागिति ।। सू० ३२ ।। सूत्रम्--जे भिक्खू पाडिहारियं पिप्पलगं जाइत्ता वत्थं छिंदिस्सामि त्ति पायं छिंदइ, छिदंतं वा साइज्जइ ।। सू० ३३॥ _ छाया-यो भिक्षुः प्रातिहारिकं पिप्पलकं याचित्वा वस्त्रं छेत्स्यामीति पात्र छिनत्ति छिन्दन्तं वा स्वदते ।। सू० ३३ ॥ चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू यो भिक्षुः श्रमणः 'पाडिहारियं प्रातिहारिक-कार्यानन्तरं परावर्तनीयम् 'पिप्पलगं' पिप्पलकम्-लोहमयशस्त्रविशेष कतरिकादिकं 'जाइत्ता' याचित्वा, 'वत्थं छिदिस्सामि' वस्त्रं छेत्स्यामि इति कृत्वा, 'पायं छिंदई' पात्रं छिनत्ति, छेदयति वा, 'छिदंतं वा साइज्जई' छिन्दन्तं वा स्वदतेऽनुमोदते इति पूर्ववत् ।। सू० ३३ ॥ सूत्रम्-जे भिक्खू पाडिहारियं नहच्छेयणगं जाइत्ता नहं छिंदिस्सामिति सल्लुद्धरणं करेइ, करेतं वा साइज्जइ ॥ सू० ३४॥ छाया-यो भिक्षुः प्रातिहारिक नखच्छेदनकं याचित्वा नखं छेत्स्यामि इति शल्योद्धरणं करोति कुर्वन्तं वा स्वदते ॥ सु. ३४॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः 'पाडिहारिय' प्रातिहारिक पुनः परावर्तयिष्यामीति कथयित्वा 'नहच्छेयणगं' नखच्छेदनक-नखकर्तनसाधनम् । 'जाइत्ता' याचित्वा 'नहं छिदिस्यामिति' नखं छेत्स्यामि इति कृत्वा आनीतवान् । किन्तु तेन 'सल्लुद्धरणं करेइ' शल्योद्धरणं करोति, कारयति 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदते-अनुमोदते इति पूर्ववत्प्रायश्चित्तभाक् सः ॥ सू० ३४ ॥ सूत्रम्-जे भिक्खू पाडिहारियं कण्णसोहणगंजाइत्ता कण्णमलंणीहरिस्सामिति दंतमलं वा नखमलं वाणीहरेइ णीहरंतं वा साइज्जइ ॥सू०३५||
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy