________________
पूर्णिमायावचूरिः उ०१७ सू० २५२-२५३ गायनादिकरण भेर्यादिशब्दश्रवणेच्छानिषेधः ३९५ छाया-अमुकाचार्यसदृशानि लक्षणानि खलु पश्य ममापि ।
ईशलक्षणयुक्तश्व, भवति अचिरेण आचार्यः ॥१॥ ___ इत्यादि स्वस्य विषये व्याकरोति तथा 'बागरेंतं वा साइज्जइ व्याकुर्वन्तं वा स्वशरीरस्थ लक्षणानि प्रकाशयन्तं श्रमणान्तरं यः स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २५१॥
सूत्रम्--जे भिक्खू गाएज्ज वा हसेज्ज वा वाएज्ज वा णच्चेज्ज वा अभिणएज्ज वा हयहेसियं, हथिगुलगुलाइयं उक्किट्ठसीहनायं वा करेइ करेंतं वा साइज्जइ ॥ सू० २५२ ॥
छाया-यो भिक्षुः गायेत् वा हसेद्वा वादयेहा नृत्येद्वा अभिनयेद्वा हयहेषितं हस्तिगुलगुलायिनम् उत्कृष्टसिंहनाद वा करोति कुर्वन्तं वा स्वदते ।। सू० २५२ ।।
चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गाएज्ज वा' गायेद्वा-गानं कुर्यात्, तत्र स्वरकरणं स्वरसञ्चारो वा गानं तत्कुर्यात् 'हसेज्ज वा' हसेद्वा- मुखं विस्फाल्य सविकारकहकहकरणरूपं हसनं कुर्यात् 'वाएज्ज वा' वादयेत्-शवीणामृदद्गादिकं वादयेत् 'नच्चेज्ज वा' नृत्येदा-पादजधोरुकट्युदरबाहङ्गुलिवदन नयनभ्रमुखादीनां विकारकरणं गात्रसञ्चालनापरपर्यायं नृत्यं कुर्यात् , 'अभिणएज्ज वा' अभिनयेद्रा-अभिनयं दृश्यश्रन्यादिनाटकाङ्गरूपं कुर्यात् 'हयहेसियं वा' हयहेषितं वा-अश्ववत् हेषाशब्दं कुर्यात् 'हत्यिगुलगुलाइयं वा' हस्तिगुलगु अयितं वा हस्तिशब्दवत् शब्दं करोति 'उक्किट्ठसीहनायं वा उत्कृष्टसिंहनादं वा' सिंहो यथा विलक्षण हुङ्कारशब्दं करोति तथैव सिंहशब्दानुकारिशब्दम् 'करेइ' करोति स्वयमेव, परद्वारा वा कारयति तथा 'करेंतं वा साइजई' कुर्वन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह-भाष्यकारः
गाएज्ज अहवा णच्चे. इसेज्ज जइ मोहमओ । पावइ आणाभंगाई, मिच्छत्तं च विराहणं ।। छाया-गायेद्वा अथवा नृत्येत् हसेद्वा यदि मोहतः।
प्राप्नोत्याशाभङ्गादि मिथ्यात्वं च विराधनम् ।। अवचूरिः-यदि मोहतः-मोहवशात् कारणादकारणाद्वा श्रमणः श्रमणी वा गायेत्गान कुर्यात्, अथवा हसेत्-कहकह-शब्दं कुर्यात् उपलक्षणत्वात् वादयेत् अभिनयेत्-अश्वगजादिशब्दं वा कुर्यात् तदा स आज्ञाभङ्गादिकं मिथ्यात्वं विराधनं च प्राध्नोति ॥ सू० २५२ ॥