________________
पूणिभाष्यावरिः उ० १७ सू० २४८-२५१ फूत्कृतसचित्ताशनादिग्रहणनिषेधः ३९३ 'पत्तभंगेण वा' पत्रभङ्गेन वा-पत्रखण्डेन इत्यर्थः 'साहाए वा शाखया वा-वृक्षावयवरूपया 'साहामंगेण वा शाखाभङ्गेन-शाखाखण्डेनेत्यर्थः, 'पेहुणेण वा' मयूरपिच्छेन वा 'पेहुणहत्थेण वा मयूरपिच्छपुजेन वा 'चेलेण वा' चेलेन वा-वस्त्रेण वा 'वेलकण्णेण वा चेलकर्णेन वा वस्त्रावयवेन वस्त्रखण्डेनेत्यर्थः, हत्थेण वा' हस्तेण वा-हस्तसञ्चालितवायुना 'फुमित्ता' फूत्कृत्य मुखेन फूत्कारं कृत्वा 'वीइत्ता' वीजयित्वा-व्यजनादिना शीतलीकृत्य 'आहट्ट' आहत्य-आनीय हस्ते गृहीत्वेत्यर्थः 'दिज्जमाणं' दीयमानम् 'पडिग्गाहेइ' प्रतिगृह्णाति-स्वीकरोति तथा 'पडिग्गाहेतं वा साइज्जई' प्रतिगृह्णन्तं वा-चूल्ह्यादितोऽवतारितमन्युष्णमशनादिकं मुखादिवायुना बीजयित्वा-शीतलीकृन्य दीयमानमशनादिकं गृहन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति । तथा तस्याऽऽज्ञाभङ्गादिका दोषा अपि भवन्ति ।। सू० २४८॥
सूत्रम्-जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा अच्चुसिणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ।। सू० २४९॥
छाया --यो भिक्षुरशनं वा, पानं घा, खाद्य घा स्वाधं अत्युष्णं प्रतिगृह्णाति प्रतिगृहन्तं वा स्वदते ॥ सू० २४९ ॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'असणं वा' अशनं वा 'पाणं वा पानं वा 'खाइमं वा' खाचं वा 'साइमं वा' स्वाचं वा 'अच्चुसिणं' अत्युष्णम अत्यन्तोष्णं येन हस्तादि दह्यने तादृशमशनादिकं 'पहिग्गाहेई' प्रतिगृह्णाति-स्वीकरोति तथा 'पडिग्गाहें तं वा साइज्जई' प्रतिगृह्णन्तं वा श्रमणान्तरं स्वदते-अनुमोदते य प्रायश्चित्तमागी भवति । यतः-अत्युप्णग्रहणे वायुकायसंपातिमद्वीन्द्रियादीनां हिंसासद्भावात् संयमविराधना, · हस्तादिदहनसद्भावादात्मविराधना च भवतीति तादृशाशनादिकं न ग्राह्यम् । सू० २४॥
सूत्रम्--जे भिक्खू उस्सेइमं वा संसेइमं वा चाउलोदगं वा वारोदगं वा तिलोदगं वा तुसोदगं वा जवोदगं वा आयामं वा सोवीरं वाअंबकंजियं वा सुद्धवियडं वा अहुणाधोयं अणंबिलं अपरिणयं अवुक्कंतजीवं अविद्धत्थं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ सू० २५०॥
छाया-यो भिक्षुः उत्सेकिम वा संकिम वा तण्डलोदकं वा वारोदकं वा तिलोदकं वा तुषोदकं वा यवोदकं वा आचामं वा सौवीरं वा आम्रकाग्जिकं वा शुद्धविकटं वा अधुनाधौतम् अनाम्लम् अपरिणतम् अव्युत्क्रान्तजीवम् अविध्वस्तं प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते ॥ सू० २५० ॥
५०