SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ निशीथसत्रे प्रतिगृह्णन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० २४४ ॥ एवं 'आउपइडियं अप्कायप्रतिष्ठितं-सचित्तमिश्राप्कायोपरिस्थितमशनादिकम् ।। सू० २४५ ॥ 'तेउपइटियं' तेजःप्रतिष्ठितं तेजस्कायोपरि स्थितमशनादिकम् ।। सू० २४६ ॥ 'वणप्फइकायपइट्टियं' वनस्पतिकायप्रतिष्ठितं हरितकायोपरिस्थितम् उपलक्षणाद् व्रीह्यादिबीजधान्यादिप्रतिष्ठितं वा ऽशनादिकं यो भिक्षुः प्रतिगृह्णाति प्रतिगृहन्तं वा स्वदते स प्रायश्चित्तभाग् भवति । अत्र शिष्यः पृच्छति-हे गुरो ! यदि पृथिव्यादिप्रतिष्ठितमशनादिकं गृह्णाति तदा को दोपः, न स्पर्शमात्रेण कस्यापि जीवस्य पीडा सभवति । इति, आचार्चः प्राह-हे शिष्य ! भवत्येव तज्जीवानां पीडा, यत् श्रमणाथै श्रावकः पात्रादिकमवतारयति इति भवत्यवतारणादिसमये संघट्टनं, संघट्टनमात्रेणैव ते एकेन्द्रिया महती वेदनामनुभवन्ति, यथा कश्चित् जराजीर्णदेहो वृद्धो बलवता तरुणयमलपाणिना शिरसि ताडयते तत्र यादृशी वेदनामनुभवति वृद्धस्ततोऽप्यधिकतरां वेदना संघट्टनमात्रेणैव एकेन्द्रियजीवा अनुभवन्ति तस्मात् कारणात् एकेन्द्रियजीवानां संघटनं येन भवेत् तथा न कर्तव्यमित्यतः सूत्रे तन्निपेधः कृत इति । एवं यो हि दोपः पृथिव्यादिप्रतिष्ठिताऽशनादिग्रहणे भवति स एव दोषो नियमतः सचित्तपृथिव्यादिप्रतिष्ठितवनपात्रादिग्रहणेऽपि ज्ञातव्यः ।। सू० २४७॥ सूत्रम्-जे भिक्खू अच्चुसिणं असणं वा पाणं वा खाइमं वा साइमं वा मुहेण वा सुप्पेण वा विहुणणेण वा तालियंटेण वा-पत्तेण वा पत्तभंगेण वा साहाए वा साहामंगेण वा पेहुणेण वा पेहुणहत्थेण वा चेलेण वा चेलकण्णेण वा हत्थेण वा फुमित्ता वीइत्ता आहट्ट दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥सू० २४८॥ छाया-यो भिक्षुरत्युष्णमशनं वा पानं वा स्वाधं वां स्वाधं वा मुखेन वा सूर्पण पा विधुननेन वा तालवृन्तेन वा पत्रेण वा पत्रभनेन वा शाखया वा शाखाभतेन वा पेहुणेन वा पेहुणहस्तेन वा चैलेन चेलकर्णेन वा हस्तेन वा फूत्कृत्य वीजयित्वा आहृत्य दीयमान प्रतिगृह्णाति प्रतिगृहन्तं वा स्वदते ॥ सु० २४८ ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अच्चुसिणं' अत्युष्णम्-अतिशयोष्णम् 'असणं वा' अशनं वा 'पाणं वा' पानं वा 'खाइमं वा' खाचं वा 'साइम' स्वाचं वा 'मुहेण वा' मुखेन वा मुखवायुनेत्यर्थः 'मुप्पेण वा' सूर्पण वा सूर्पवायुना इत्यर्थः, 'विहुणणेण वा' विधुननेन वा-व्यजनेन 'पंखा' इति लोकप्रसिद्धेन तदीयवायुनेत्यर्थः 'वालियंटेण वा तालवृन्तेन वा तालव्यननेन तदीयवायुनेत्यर्थः, 'पत्तण वा' पण वा
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy