SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ३८६ निशीथर छाया--यो भिक्षु. कौतूहलप्रतिशया हाराणि चा अर्द्धहाराणि चा एकावली या मुक्तावली चा कनकावली वा रत्नावली चा कटकानि वा घुटितानि वा केयूरापि वा कुण्डलानि वा पट्टानि वा मुकुटानि वा प्रलम्बसूत्राणि वा सुवर्णसूत्राणि वा करोति कुर्वन्तं वा स्वदते ॥ सू. ९॥ एवं धरतिः ॥ सू० १०॥ परिभुङ्क्ते ॥ सू० ११॥ चर्णी-'जे भिक्खू' इत्यादि । यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा मोहनीयकर्मोदयात् 'कोउहल्लवडियाए' कौतूहलप्रतिज्ञया-स्वात्मविनोदेच्छया अन्येनापि कारणेन वा 'हाराणि वा हारान् वा अष्टादशसरिकान् 'अद्धहाराणि वा अद्धहारान् वा नवसरिकान् अर्द्धहारान् , 'एगावलिं वा' एकावली वा-एकसरिकाम् 'मुक्तावलिं वा' मुक्तावली वा, तत्र मुक्तानां मौक्तिकानामावली-पंक्तियत्र सा, तां मुक्तावलीम् 'कणगावलि वा' कनकावली वा, तत्र कनकानां सुवर्णमणकानामावली यत्रेति कनकावली ताम् , 'रयणावलि वा' रत्नावली वा, तत्र रत्नानां माणिक्यप्रमृतीनामावली-पंक्तिर्यत्र तां रत्नावलीम् , 'कडगाणि वा कटकानि वा कङ्कणानि-सुवर्णवलयान् वा 'तुरियाणि वा' त्रुटितानि वा बाहाभरणानि 'केजराणि वा' केयूराणि वा 'भुजबन्ध' इति प्रसिद्धानि भुजाभरणानि 'कुण्डलाणि वा' कुण्डलानि वा-कर्णाभरणानि 'पाणि वा' पट्टानि वा कटिपट्टानि कट्याभरणानि 'मउडाणि वा' मुटुटानि वा-शिरोभूषणानि 'पलवसुत्ताणि वा' प्रलम्बसूत्राणि वा कण्ठादौ प्रलम्बमानाभरणानि 'सुवण्णमुत्ताणि वा' सुवर्णसूत्राणि वा-कण्ठे धार्यमाणानि सुवर्णसूत्रग्रथितान्याभरणानि, एतानि हारादीनि यः श्रमणः श्रमणी वा स्वात्मविनोदाभिप्रायेण अन्येन वा केनापि कारणेन 'करेई' करोति-स्वयं सम्पादयति तथा 'करेंतं वा साइज्जई' कुर्वन्तं वा-संपादयन्तं वा स्वदते–अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ९॥ एवम्-हारादीनां विषये 'धरेइ परिभुंजइ इति सूत्रद्वयमपि स्वयमूहनीयम् , करण-धरण-परिभोगविषयाणां सूत्राणां व्याख्या सप्तमोदेशके द्रष्टव्या । सू० १०-११॥ सूत्रम्-जे भिक्खू कोउहल्लवडियाए आईणाणि वा आईणपाउरणाणि वा कंवलाणि वा कंबलपाउरणाणि वा कोयराणि वा कोयर पाउरणाणि वा गोरमियाणि वा कालमियाणि वा नीलमियाणि वा सामाणि वा महासामाणि वा उद्याणि पा उट्टलेस्साणि वा वग्घाणि वा विवग्घाणि वा पवंगाणि वा सहिणाणि वा सहिणकल्लाणि वाखोमाणि वा दुगुल्लाणि वा तिरीडपट्टाणि वा पतुलाणि वा पणलाणि वा आवरंताणि वा चीणाणि वा अंसुयाणि वा कणगकताणि वा कणगखचियाणि वा कणगविचित्ताणि वा आभरणविचित्ताणि वा करेइ करेंतं वा साइज्जइ ॥ सू०१२॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy