________________
३८०
निशोथसूत्रे
चूर्णी-'त सेवमाणे' इत्यादि । 'तं सेवमाणे' तत्-सागारिकशय्यात आरभ्य उद्देशकपरिसमातिपर्यन्तं प्रायश्चित्तस्थान सेवमानः तस्य प्रतिसेवनां कुर्वन्-श्रमणः श्रमणी वा 'आवज्जई' आपद्यते-प्राप्नोति 'चाउम्मासियं' चातुर्मासिकम् 'परिहारहाणं' परिहारस्थानम्-- प्रायश्चित्तम् 'उग्घाइयं' उद्घातिकम्-सागारिकशय्यादिप्रवेशादारभ्य उद्देशकपरिसमाप्तिगतोच्चारप्रस्रवणपरिष्ठापनसूत्रपर्यन्तं यानि यानि प्रायश्चित्तस्थानानि दर्शितानि तेषु मध्यात् एकमनेकं सर्व वा पापस्थानं प्रतिसेवमानस्य लघु चातुर्मासिवं प्रायश्चित्तं भवति, तथा तस्याऽऽज्ञाभङ्गादिका दोषा अपि भवन्ति ॥ सू० ५३ ॥ इति श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालबति-विरचितायां "निशीथसूत्रस्य" चूर्णिभाष्यावचूरिरूपायां व्याख्यायाम् षोडशोदेशकः समाप्तः ॥१६॥
MMAR