________________
॥ षोडशोद्देशकः ॥ व्याख्यातः पञ्चदशोद्देशकः, साम्प्रतमवसरप्राप्तः षोडशोदशको व्याख्यायते, तत्र पोडशोदेशकादिसूत्रस्य पञ्चदशोद्देशकान्तिमसूत्रेण सह कः सम्बन्ध इति चेत् अत्राह भाष्यकार:--
पुव्वंतमि विभूसाए, पडिसेहो य वन्निओ ।
चरित्ते दोसभावाभो, एत्थ सेज्जा णिसिज्झइ ॥ छाया-पूर्वान्ते विभूषायाः प्रतिषेधश्च वर्णितः ।
चारित्रे हि दोषभावादत्र शय्या निषिद्धयते ॥ अवचूरिः-पूर्वान्ते-पूर्वस्य-एतदपेक्षया पूर्वस्य प्राक्कथितस्य पञ्चदशोदेशकस्यान्ते-चरमसूत्रे विभूषानिमित्तं-शोभार्थ पादादिप्रमार्जनादीनाम् तथा विभूषार्थ च उज्ज्वलोपधिधारणस्य प्रतिषेधः वर्णितः कथितः । कथं विभूषादीनां प्रतिषेधः कृतस्तत्राह-'चरित्ते' इत्यादि, चारित्रे दोषभावात् दोषोत्पादकत्वात् उज्ज्वलोपधिधारणं शरीरविभूषादिकं च साक्षात् परम्परया वा चारित्रस्य विराधनकारणं तस्मात् कारणातू तस्य प्रतिषेधः कृतः, तत्सम्बन्धादत्र षोडशोद्देशकेऽपि सागारिकशय्यायाः सागारिकवसतेः प्रतिषेध एवं क्रियते सागारिकशय्याया अपि संयमविराधकत्वात् इति संयमविराधकत्वस्य उभयत्रापि समानत्वेन अयमेव सम्बन्धः पूर्वापरसूत्रयोः ।
पूर्वस्मिन् उद्देशके लघुचातुर्मासिकं प्रायश्चित्तं कथितम्, अत्रापि तदेव कथयिष्यते इति । तदनेन सम्बन्धेन आयातस्यास्य पोडशोदेशकस्येदमादिसूत्रम्
सूत्रम-जे भिक्खू सागारियसेज्जं अणुप्पविसइ अणुप्पविसंतं वा साइज्जइ ॥ सू० १॥
छाया-यो भिक्षुः सागारिकशय्यामनुप्रविशति अनुप्रविशन्तं वा स्वदते ॥ सू०१॥
चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'सागारियसेज्ज' सागारिकशय्याम्, तत्र सागारिकः गृहस्थः तस्य शय्या वसतिरिति सागारिकशय्या, शेते यस्यां सा शय्या-वसतिनिवासस्थानम् यत्रावस्त्रानेन मैथुनभाव उद्भवति सा, सागारिके-येषा सामयिकी संज्ञा तेन सागारिकशय्येति दम्पत्योः शयनस्थानमित्यर्थः एतादृशं स्थानं यो भिक्षुः श्रमणः श्रमणी वा 'अणुप्पविसई' अनुप्रविशति ओदनादिग्रहणार्थं प्रवेश करोति कारयति वा तथा-'अणुप्पविसंत वा साइज्जई' अनुप्रविशन्तं वा स्त्रीपुरुषयोः शयनस्थाने प्रवेशं कुर्वन्तं श्रमणान्तरं स्वदते-अनुमोदते स दोषभागी भवति, एतादृशस्थाने शृङ्गारसामग्रीबाहुल्येन मनोविकृतेः संभवादिति ॥ सू० १ ।।