________________
चूणिभाष्यावचूरिः उ० १५ सू० - १६३
उद्देशकपरिसमाप्तिः ३६१
छाया - यो भिक्षुर्विभूषाप्रत्ययेन वस्त्रं वा यावत् पादप्रोञ्छनकं वा अन्यतमं वा उपकरणजातं धावति धावन्तं वा स्वदते ॥ सु० १६२ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः - श्रमणः श्रमणी वा वस्त्रादिकमन्यतमं वा उपकरणजातम् 'विभूसावडियाए' विभूषाप्रत्ययेन शोभानिमित्तं धावति - प्रक्षालयति, धावन्तमन्यमुनिं वा स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १६२ ॥
किं प्रायश्चित्तं प्राप्नोतीत्याह - ' तं सेवमाणे ' इत्यादि ।
सूत्रम् - तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं उग्घा - इयं ॥ सू० १६३ ॥
॥ णिसीहझयणे पणरसमो उद्देसो समत्तो ॥ १५ ॥
छाया - तत्सेवमान आपद्यते चातुर्मासिकं परिहारस्थानम् उद्घातिकम् ॥ सू० १६३॥ || निशीथाध्ययने पञ्चदशोदेशकः समाप्तः ॥ १५ ॥
चूर्णी - 'तं सेवमाणे ' इत्यादि । 'तं' तत् उद्देशकादित आरभ्य शोभार्थवस्त्रधावनपर्यन्तपापस्थानमध्यात् यत् किमपि एकमनेकं वा पापस्थानम् 'सेवमाणे' सेवमानः - प्रतिसेवनां कुर्वन् श्रमणः श्रमणी वा 'आचज्जइ' आपद्यते प्राप्नोति 'चाउम्मासिय' चातुर्मासिकम् 'परिहारहाणं' परिहारस्थानम् प्रायश्चित्तम् ' उग्घाइयं' उद्घातिकम् - लघुचातुर्मासिकं प्रायश्चित्तं तस्य भवतीति ॥ सू० १६३॥
इति श्री—विश्वविख्यात—जगद्वल्लभ - प्रसिद्धवाचक - पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकप्रन्थनिर्मापक - वादिमानमर्दक- श्री शाहू छत्रपतिकोल्हापुरराजप्रदत्त“जैनशास्त्राचार्य” - पदभूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य -- जैनधर्मदिवाकर-पूज्यश्री-घासीलालवति - विरचितायां “निशीथसूत्रस्य" चूर्णिभाष्यावचूरिरूपायां व्याख्यायाम् पञ्चदशोद्देशकः समाप्तः ॥ १५ ॥
४६