________________
पूर्णिभाष्यावचूरिः उ. १५ सू १३-६८ अन्यतोर्थिकादित पादामार्जनादिनिषेधः ३५१
___ चूर्णी--'जे भिक्ख' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'सचित्तपइडियं' मचित्तप्रतिष्ठितम्, इतिविशेषणविशिष्टमाम्रादिक विदशति-चूषति शेषं सुगमम् । मत्राह भाष्यकार:--
सचित्वं तहा पेसि, तं सचित्तपइडियं ।
जो भुंजेज्ज विडंसेज्ज, आणाभंगाइ पावइ ॥११॥ छाया-सचितानं तथा पेशी, तत्सचित्तप्रतिष्ठितम् ।
यो भुक्के विदशति, आशाभङ्गादि प्राप्नोति ॥१॥ अवचूरिः-यः कश्चिद् भिक्षुः-श्रमणः उपलक्षणात् श्रमणी वा स सचित्ताम्रम्-संचित्ताम्रफलम् तथा पेशीम्-आम्रचारिकाम् उपलक्षणाद्-आत्रभित्तं आम्रसालकम् आम्रचोयगं वा, आम्रफलस्य कोऽपि प्रकारो भवेत् तं सचित्त यदि भुङ्क्ते विदशति वा तदा स श्रमणः आज्ञाभङ्गादिदोपान् प्राप्नोतीति । सू० १२॥
सूत्रम्-जे भिक्खू अण्णउत्थिएण वा गारथिएण वा अप्पणापाए आमज्जावेज्ज वा पमज्जावेज्ज वा आमज्जातं वा पमज्जातं वा साइज्जइ ॥ सू० १३॥
छाया-यो भिक्षुरन्ययूथिकेन वा गाईस्थिकेन वा आत्मनः पादौ आमार्जयेद् वा प्रमार्जयेद् वा आमार्जयन्त वा प्रमार्जयन्तं वा स्वदते ॥ सू. १३ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः-श्रमणः श्रमणी वा 'भण्णउत्थिएण वा' अन्ययूथिकेन-अन्यमतानुयायिना तापसादिनेत्यर्थः गारथिएण वा' गार्हस्थिकेन गृहस्थेन श्रावकेण तद्भिन्नेन वा 'अप्पणो पाए' आत्मनः स्वस्य पादौ-चरणौ 'आमज्जावेज्ज वा' आमार्जयेद्वा-एकवारं वा मार्जनं कारयेद्वा 'पमज्जावेज्ज चा' प्रमार्जयेद्वा अनेकवारं वा प्रमार्जनं कारयेद्वा, तथा 'आमज्जावेंतं वा' आमार्जयन्तं वा-एकवारं चरणप्रमार्जनं कारयन्तं वा 'पमज्जातं वा' प्रमार्जयन्तं वा-प्रतिदिनमनेकवारं वा पादयोः प्रमार्जनं कारयन्तं श्रमणान्तरम् 'साइज्जई' स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति ।। सू १३ ॥
सूत्रम्-एवं तइयउद्देसगमओ णेयव्वो जाव गामाणुगामं दइज्जमाणे अण्णउत्थिएण वा गारत्थिएण वा अप्पणो सीसदुवारियं करावेइ करावंतं वा साइज्जइ ॥ सू० १४-६८॥