________________
घृणिभाष्यावचूरिः उ० १४ सू० ५८-६० प्रतिग्रहनिश्रया ऋतुवद्धादिकालनिवासनिषेधः३४५ ऽन्येपि दोषा भवन्ति तथाहि-सभामध्ये धर्मकथां श्रोतुमनेके ज्ञातका अज्ञातका वा श्रावका अश्रावका वा समागता भवन्ति तत्र तन्मध्यात् यं कमपि समुत्थाप्य पात्रादियाचनं करोति श्रमणः तदा तस्य तत्र कश्चित् शत्रुरपि धर्मकथां शृण्वन् आसीत्, तच्छत्रोभिन्ना अपि आसन् , तदिवसे तत्काले वा तच्छत्रोः चतुष्पदमश्वादिकं कोपि चौर्येणाहरत् स्वयं वा विनष्टो जातः, तदीयस्वजनो वा उपद्रावितः केनापि भवेत् तदा शत्रोर्मनसि एवं शङ्का भविष्यति यद् चतुष्यदादिमम नष्टस्तदिवसे अभुकः श्रावकः सभामध्यादुत्थाय बहिर्गत इति मया दृष्टः प्रायस्तेनैवापहरणं कृतं भवेत् , एवंप्रकारेण श्रावकोपरि श्रमणोपरि वा शङ्का करिष्यति, अथवा साधुरेवापहरणं कृतवानित्यपि शङ्केत, रुष्टा वा ते संतापनादिकं कुर्युरिति तन्निप्पन्नं प्रायश्चित्तं श्रमणस्य भवेत् तस्मात्कारणात् श्रमणः सभात स्वजनादिकमुत्थाप्य पात्रादियाचनां न कुर्यात् न वा कुर्वन्तमनुमोदेतेति ॥ सू० ५७ ॥
सूत्रम्-जे भिक्खू पडिग्गहनीसाए उडुबद्धं वसइ, वसंतं वा साइज्जइ ।। सू० ५८॥
छाया-यो भिक्षुः प्रतिग्रहनिश्रया ऋतुबद्धं वसति वसन्त वा स्वदते ॥ २० ५८॥
चूर्णी-जे 'भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः 'पडिग्गहनीसाए' प्रतिग्रहनिश्रया पात्रादिलाभेच्छया अन्यं मासकल्पयोग्यं क्षेत्रं परित्यज्य अत्र क्षेत्रे पात्रादिकं लप्स्ये इति लोभेन यः श्रमणः श्रमणी वा ऋतुबद्धे काले मासकल्पस्याप्रायोग्येपि ग्रामादौ 'वसई' वसति निवासं करोति 'वसंतं वा साइज्जई' वसन्तं वा स्वदते स प्रायश्चित्तभार भवति ॥सू० ५८॥
सूत्रम-जे भिक्खू पडिग्गहनीसाए वासावासं वसइ वसंतं वा साइज्जइ ॥ सू० ५९॥
छाया-यो भिक्षुः प्रतिग्रहनिश्रया वर्षावासं वसति वसन्तं वा स्वदते ॥सू० ५९॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चित् भिक्षुः ‘पडिग्गहनीसाए' प्रति प्रहनिश्रया अर्थात् अमुकक्षेत्रे निवासकरणे प्रचुरं पात्रादिकं मे मिलिण्यतीति विचार्य योग्ये अयोग्ये वा क्षेत्रे 'वासावासं' वर्षावासं वर्षाकालनिवासं चातुर्मास्यमित्यर्थः 'वसई' वसति निवासं करोति तथा 'वसंत वा साइज्जइ वसन्तं वा स्वदते, यो हि श्रमणः श्रमणी वा पात्रादिलोभेन वर्षाकालिकनिवासाय योग्येऽयोग्ये वा क्षेत्रे वर्षाकालिकनिवासं करोति तमनुमोदते स प्रायश्चित्तभाग भवति ।