SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ चूमिभाग्यावचूरिः उ. १४ सू०५५-५७ पात्रस्य कोरण-मार्गसभागतज्ञातकादियाचननि० ३४३ त्रसप्राणजातं कुन्थुपिपीलिकादिकं तद्विषयकमपि सूत्रं विज्ञेयं सूत्रम् ॥ सू० ५३ | एवं व्याख्येयं च ॥ सू० ५४ ॥ सूत्रम् - भिक्खू पडिग्गहं कोरेइ कोरावेइ कोरियं आहट - दिज्जमाणं पडिग्गाहेइ पडिग्गाहतं वा साइज्जइ ॥ सू० ५५ ॥ छाया -यो भिक्षुः प्रतिग्रहं कोरयति कोरावयति कोरितमाहृत्य दीयमानं प्रतिगृहाति प्रतिगृहन्तं वा स्वदते ॥ सू० ५५ ॥ चूर्णिः - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'पडिग्गहं' प्रतिग्रहं पात्रम् 'कोरेइ' कोइ इति देशीशब्दोऽयम् तदर्थस्तु सूक्ष्मच्छिदैचित्रयति अर्थात् यो भिक्षुः पात्रस्य मुखादिकं विच्छित्य स्वयं सम्पादयति चित्रादिकं च पात्रे स्वयं करोति 'कोरावे ' कोरावयति चित्रयति अन्यद्वारा पात्रस्य मुखादिकं चित्रादिकं च कारयति 'कोरियं आहट्ट - दिज्जमाणं' कोरितमाहृत्य दीयमानं चित्रितं पात्रं परद्वारा सम्मुखमागत्य दीयमानम् 'पडिग्गाहेइ' प्रतिगृह्णाति स्वीकरोति स्वीकारयति वा 'पडिग्गार्हतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ५५ ॥ सूत्रम् - जे भिक्खू णायगं वा अणायगं वा उवासंगं वा अणुवासगं वा गामंतरंसि वा गामपहंतरंसि वा पडिग्गहं ओभासिय आभासिय जाया जायंतं वा साइज्जइ ॥ सू० ५६ ॥ छाया - यो भिक्षुर्ज्ञातिकं वा अचातकं वा उपासकं वा अनुपासकं ग्रामान्तरे वा मामपथान्तरे वा प्रतिग्रहमव भाष्यावभाष्य याचते याचमानं वा स्वदते ॥ सू० ५६ ॥ चूर्णि - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'णायगं वा' ज्ञातकं वा स्वजनं वा तत्र स्वजनः पूर्वसंस्तुतः पश्चात् संस्तुतश्च तत्र पूर्वसंस्तुतः पूर्वपरिचितो मातापितृभ्रातृप्रभृतिकः, पश्चात्संस्तुतः श्वशुरश्वश्रूश्यालकादिः 'अंणायगं वा' अज्ञातकम् अस्वजनं स्वजनभिन्नो वा पूर्वपरिचितः ग्रामवासी देशवाशी वा तम् 'उवासगं वा' उपासकं जिनधर्मानुयायिनं श्रावकं श्राधिकां वा 'अणुवासरां चा' अनुपासकं श्रावकभिन्नं यं कमपि वा 'गामंतरंसि वा ' ग्रामान्तरे वा-द्वयोर्ग्रामयोर्मध्यभागे 'गामपहंतरसि वा' ग्रामपथान्तरे वा ग्रामस्य मार्गद्वयमध्ये 'ओभासि ओभासिय' अवभाष्यावभाष्य उच्चैःशब्देन कथयित्वा कथयित्वा 'पडिग्गहूं' प्रतिग्रहं पात्रादिकम् 'जायइ' याचते पात्रयाचनां करोति 'जायंतं वा साइज्जइ' याचमानं वा स्वदते स प्रायश्चित्तभागू भवति । अत्राह भाष्यकारः '
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy